Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 468
________________ सम्य०५ उद्देशकः ५ श्रीआचा राजवृत्तिः (शीलाङ्का.) ४५४॥ आवट्ठ तु पेहाए इत्थ विरमिज (विवेगं किहइ) वेयवी, विणइत्त सोयं निक्खम्म एसमहं अकम्मा जाणइ पासह पडिलेहाए नावखइ इह आगई गई परिन्नाय ॥ १६९॥ रागद्वेषकषायविषयावत्त कर्मबन्धावत्तं वा तुशब्दः पुनःशब्दार्थे भावावर्त पुनरुत्प्रेक्ष्य 'अन' अस्मिन् भावावर्ते विषयरूपे 'वेदविद्' आगमविद् 'विरमेद्' आस्रवद्वारनिरोधं विदध्यात्, पाठान्तरं वा "विवेगं किइ वेदवी" आस्रवद्वारनिरोधेन तज्जनितकर्मविवेकमावं 'कीर्तयति' प्रतिपादयति वेदविदिति । आस्रवद्वारनिरोधेन च यत्स्याचदाहस्रोतः-आस्रवद्वारं तद्विनेतुम्-अपनेतु'निष्क्रम्य' प्रव्रज्य 'एष' इति प्रत्यक्षः प्रस्तुतार्थम्य चावश्यंभावित्वादेष इति प्रत्यक्षवाचिना सर्वनाम्नोक्तो यः कश्चिदित्यर्थः 'महान्' महापुरुषः अतिशयिककर्मविधायी, एवम्भूतश्च किंविशिष्टः स्वादिति दर्शयति-'अकर्मा' नास्य कर्म विद्यत इत्यकर्मा, कर्मशब्देन चात्र धातिकर्म विवक्षितं, तदभावाच्च जानाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्व जानाति पश्चाच्च पश्यति, अनेन च क्रमोपयोग आविष्कृतः, स चोत्पन्नदिव्यज्ञान लोक्यललामचूडामणिः सुरासुरनरेन्द्रैकपूज्यः संसाराणेवपास्यत्ती विदितवेद्यः सन् किं कुर्यादित्याह-सहि ज्ञातज्ञयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसारी सोपाधिका च 'प्रत्युपेक्ष्य' पर्यालोच्य हृषीकविजयजनितसुखनिःस्पृहतया तां नाकाङक्षति-नाभिलषतीति । किं च-'इह' अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञान: प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति ॥ तन्निराकरणे च यत्स्यासदाह ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥४५४॥

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472