Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 467
________________ .४५५॥ राकरणं कुर्यात, किं कृत्वेत्यत आह-सम्यगेव स्वपरतीथिंकवादान् 'समभिज्ञाय' बुद्धवा ततो निराकरणं कुर्यात् । किं च- 'इह' अस्मिन् मनुष्यलोके आरमण मारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपः संयमः तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च 'परिव्रजेत्' संयमानुष्ठाने विहरेत, किंभूत इत्याह-निष्ठितोमोक्षस्तेनार्थी यदिवा निष्ठित:-परिसमाप्तः अर्थः-प्रयोजनं यस्य स निष्ठितार्थः 'धीर' कर्मविदारणसहिष्णुः सन् 'आगमेन' सर्वज्ञप्रणीताचारादिना 'सदा सर्वकालं 'पराक्रमेथाः' कमरिपून् प्रति मोक्षाध्वनि वा गच्छेः । इत्यधिकारपरिसमाप्तौ, ब्रवामीति पूर्ववत् । किमर्थं पुनः पौनःपुन्येनोपदेशदानमित्याहउड्ड सोया अहे सोया, तिरियं सोया वियाहिया । एए सोया विअक्खाया, जेहिं संगति पासह ॥१॥ श्रोतासि-कर्मास्रवद्वाराणि तानि च प्रतिभवाम्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत उद्धवं श्रोतासि-वैमानिकाङ्गनाऽमिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग व्यन्तरमनुष्यतिग्विषयेच्छा यदिवा प्रज्ञापकापेक्षयोद्धर्व गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि अधोऽपि श्वभ्रनदीकूलगुहालयनादीनि तिर्यगप्यारामसभाऽऽवसथादीनि प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि-प्रयोगविस्रसाभ्यां स्वकर्मपरिणत्या वा जनितानि व्याहितानि, एतानि च कर्मास्रवद्वाराणीतिकृत्वा श्रोतांसीव स्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैः 'सङ्क' प्राणिनामासक्ति कानुषङ्ग वा पश्यत, इतिहतो, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपदिश्यते, आगमेन सदा पराक्रमेथा इति किं च ॥ ५३॥

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472