SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सम्य. ५ उद्देशका ५ श्रीआचागणवृत्तिः (शीलाङ्का.) ॥४५२॥ वादिना निर्मर्यादतया जनतातिगानां न्यक्कारपदव्याधानमनुत्तरमेवोत्तरमिति । अपि च-'अब्रह्मचयरक्तमू ः परदारघर्षणाभिरतैः । मायेन्द्रजालविषवत्प्रवर्तितमसत्किमप्येतत् ॥१॥" तथा-मिथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशन्या । धर्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीदृशोऽन्यः? ॥२॥" इत्यनया दिशा सर्वेऽपि तीथिंकवादाः सर्वज्ञवादमनुसृत्य निराकार्या इति स्थितं । तन्निराकरणं च सर्वज्ञप्रवाद निराकार्यं च तीथिकवादमेभित्रिभिः प्रकारर्जानीयादित्याह-मननं मति:--ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा- तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सह वा ज्ञानेन इयं सच्छोभनया मिथ्याकलकाङ्करहितया मत्याऽवगच्छेत् , स्वपरावभासकत्वान्मतेरिति, कदाचित्परव्याकरणेनाप्यवगच्छेत् पर:--तीर्थकृत्तस्य तेन वा व्याकरणं--यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात् , तथाऽप्यनवगमेऽन्येषामाचार्यादीना अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ॥ अवधार्य च किं कुर्यादित्याहनिद्देसं नाइवढेजा मेहावी सुपडिलेहिया सव्वओ सव्वप्पणा सम्मं समभिण्णाय, इह आरामं परिणाय अल्लीण गुत्तो परिव्वए निडियट्ठी धोरे आगमेण सया परक्कमेजासि त्तिबेमि ॥सू० १६८॥ निर्दिश्यत इति निर्देशः-तीर्थकरायुपदेशस्तं नातिवर्तेत 'मेधावी' मर्यादावानिति । किं कृत्वा निर्देशं नातिवर्ततेत्यत आह--सुष्ठ प्रत्युपेक्ष्य हेयोपादेयतया तीथिंकवादान् सर्वज्ञवाद च 'सर्वतः सर्वैः प्रकारैव्यक्षेत्रकालभावरूपैः सर्वात्मनासामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहमन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवर्ती तीर्थिक प्रवादनि ॥४५२॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy