Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 456
________________ श्रीआचारावृत्तिः (शीलाङ्का.) सम्य. ५ उद्देशकः ५ . ४४२॥ यज्जिनः प्रवेदितमित्येतत्सम्यगित्येवं मन्यमानस्य 'एकदा' इत्युत्तरकालमपि शङ्काकाक्षाविचिकित्सादिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते शङ्काद्युत्पद्यत इति । कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्पगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गहीतहेतुदृष्टान्तलेशस्य ज्ञेयगहनताव्याकृलितमतेः 'एकदेति मिथ्यात्वांशोदयेऽसम्यगिति भवति, तथाहि-असौ सर्वनयसमूहाभिप्रायतया अनन्तधर्माध्यासितवस्तुप्रसाधने सति मोहादेकनयाभिप्रायेणेकांशसाधनाय प्रक्रमते, यदि नित्यं कथमनित्यमनित्यं चेत्कथं नित्यमिति, परस्परपरिहारलक्षणतयाऽनयोरवस्थानात् , तथाहि-अप्रच्युतानुत्पन्नस्थिरै कम्बभावं हि नित्यम् अतोऽन्यत्प्रतिक्षणविशरारुरूपमनित्यमित्येवमादिकमसम्यगभावमुपयाति, न पुनर्विवेचयति; यथा अनन्तधर्माध्यासितं वस्तु भवनयसमूहात्मकं च दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति, उक्तं च-"सर्वनयनियतनैगमसङग्रहायेरेकैकशो विहिततीर्थिकशासनैर्यत् । निष्ठां गतं बहविधैगमपर्ययैस्तैः, श्रद्धयमेव वचनं न तु हेतुगम्यम ॥१॥" इत्यादि, यतो हेतुः प्रवर्त्तमानः एकनयाभिप्रायेण प्रवर्तेत, एकं च धर्म साधयेत् , सर्वधर्मप्रसाधकस्य हेतोरसम्भवादिति २ । पुनरपि विचित्रभावनामाह-कस्यचित मिथ्यात्वलेशानुविद्धस्य कथं पौद्गलिक शब्द इत्यादिकमसम्यगिति मन्यमानस्य 'एकदेति मिथ्यात्वपरिणामो(ग्माणू )पशमतया शङ्काविचिकित्साद्यभावे गुर्वाधुपदेशतः सम्यगिति भवति, यदि हि पौद्गलिकः शब्दो न स्यात् ततस्तत्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्य न स्याताम्, अमूर्तत्वादाकाशवदित्यादिकं सम्यग भवति ३। कस्यचिवागमापरिमिलितमतेः कथमेकेनैव समयेन परमाणोलोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेति-कुहेतुवितर्का ॥४४२॥

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472