Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 458
________________ श्रीआचा राजवृत्तिः (शीलाङ्का.) सम्य.. उद्देशक 1४४४॥ लोचयनपरस्याप्युपदेशदानायालमिति, आह च-आगमपरिकर्मिमतमतित्वाद्यथावस्थितपदार्थस्वभावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणः-पर्यालोचयनपरमनुप्रेक्षमाणं गड्डरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणं शङ्कया वाऽपधावन्तं ब्र याद्, यथा-'उत्प्रेक्षस्व'पर्यालोचय सम्यग्भावेन माध्यस्थमवलम्ब्य किमेतदईदुक्तं जीवादितत्वं घटामिय ाहोश्चिन्नेत्यक्षिणी निमील्य चिन्तयेति भावः। यदिवा उत्प्रेक्षमाणः संयममुत्-प्रावन्येनेक्षमाणः-संयमे उद्यच्छन्ननुत्प्रेक्षमाणं ब यात् , यथा-सम्यग्भावापन्नः संयममुत्प्रेक्षस्व-संयमे उद्योगं कुरु । किमवलम्ब्येत्याह-'इत्येवं पूर्वोक्तेन प्रकारेण 'तत्र' तस्मिन् संयमे 'सन्धिः कर्मसन्ततिरूपो 'झोषितः' क्षपितो भवति, यदि संयमे सम्यग्भावे वोत्प्रेक्षणं स्यात, नान्यथेति । सम्यगुत्प्रेक्षमाणस्य च यत्स्याचदाह-'से' तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवति-या पदवी भवति तां सम्यगनुपश्यत यूयं, तद्यथा-सकललोकश्लाघ्यता ज्ञानदर्शनस्थय चारित्रे निष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात् , तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य-संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेति-सकलजनोपहास्यरूपामधमस्थानगति वा पश्यतेति । तदेवमुद्युक्तेतस्योर्गतिमुपलभ्य पश्चविधाचारसारे प्रक्रमितव्यं, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याह-'अत्रापि'असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत् , चालानुष्ठानविधायी मा भूदिति यावत , तथाहि-बालाः शाक्यकापिलादयस्नद्भावितो बालभावमाचरति, वक्ति च-नित्यत्वादमूर्त्तत्वाच्चात्मनः प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा लोषो ॥४४४।।

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472