Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 461
________________ ॥४४७ ॥ ___य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदक, यश्च विज्ञातापदार्थानां परिच्छेदक उपयोगः आत्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्य उपयोगस्य च ज्ञानात्मकत्वादिति । ज्ञानात्मनोग्मेदाभिधानाबौद्धाभिमतं ज्ञानमेकं स्यादिति चेत्, तन्न, मेदामावोऽत्र केवलं चिकीर्षितो नैक्यं, एतदेवैक्यं यो भेदाभाव इति चेद् , वार्तमेतत् , तथाहि-पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपि नैकत्वापत्तिः, अत्रापि शुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीति चेद् , अशिक्षितस्योनापो, यतः शुक्लगुणविनाशे सर्वथा पटाभावापत्तिः स्यात् , तदात्मना विनष्ट एवेति चेत्, भवतु का नो हानिः?, अनन्तधात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्मसद्भावे तद्धर्मविनाशेप्यविनष्ट एच, इत्येवमात्मनोऽपि प्रत्युत्पन्नज्ञानात्मकतया विनाशेऽप्यपगमूर्त्तत्वासङ्ख्येयप्रदेशताऽगुरुलध्वादिधर्मसद्भावादविनाश एवेत्यलं प्रसङ्गेन । ननु च य आत्मा स विज्ञातेत्यत्र तृजन्तेन कतु रमिधानादात्मनश्च कतृत्वात्ततश्च य एवात्मा स एव विज्ञातेत्यत्र विप्रतिपत्त्यमावो, येन चासौ जानाति तद्भिन्नमपि स्यात् , तथाहि-तत्करणं क्रिया वा भवेद् ?, यदि करणं तदात्रादिवद्भिन्नं स्यात्, अथ क्रिया सा यथा कस्था सम्भवत्येवं कर्मस्थाऽपीत्येवं मेदसम्भवे कुत ऐक्यमिति यश्चोदयेत्तं प्रति स्पष्टतरमाह-'येन' मत्यादिना ज्ञानेन करणभूतेन क्रियारूपेण वा विविध-सामान्यविशेषाकारतया वस्तु जानाति विजानाति स आत्मा, न तस्मादात्मनो भिन्नं ज्ञानं, तथाहि-न करणतया भेदः, एकस्यापि क कर्मकरणमेदेनोपलब्धेः, तद्यथा-देवदत्त आत्मानमात्मना परिच्छिनत्ति, क्रियापक्षे पानिको ह्यभेदो भवताऽप्यभ्युपगत एव, अपि च–'भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यत' इत्यादिनैकत्वमेवेति । ज्ञाना ॥ १७॥

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472