Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥
४५॥
वा स्यात् , एवमात्मनोऽपि शरीरविकारेऽविकारित्वम् , उक्तं च-"न जायने न म्रियते कदाचिन्नायं भूत्वा भवितेति ॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥२॥ अच्छेद्योऽयमभेद्योऽयमविकारी स उच्यते । नित्यः सततगः स्थाणरचलोऽयं सनातनः ॥२॥" इत्यादि । अध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह
तुमंसि नाम सच्चेव जं हंतव्वंति मनसि, तुमंसि नाम सच्चेव ज अन्जावेयव्वंति मन्नसि. तुमंसि नाम सच्चेव ज परियावेयवंति मनसि, एवं जं परिचित्तव्वंति मनसि, जं उद्दवेयंति मन्नसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेय.
णमप्पाणणं जं हंतव्वं नाभिपत्थए ॥ सू० १६४॥ योऽयं हन्तव्यत्वेन भवताऽध्यवसितः स त्वमेव, नामशब्दः सम्भावनायां, यथा भवान शिरःपाणिपादपार्श्वपृष्ठोरूदरखान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा च भवतो हननोद्यतं दृष्टा दुःखमुत्पद्यते एवमन्येषामपि, तत्र दुःखापादनाच्च किल्बिषानुषङ्गः, इदमुक्तं भवति-नात्रान्तरात्मनः आकाशदेश्यस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति, उक्तं च-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छवासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्विरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" न च संसारस्थस्य सर्वथा अमुर्तवावाप्तिः, येनाकाशस्येव विकरो न स्यात, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्म
५४४५.

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472