Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥४४३ ॥
विर्भावावसरे नितरामसम्यगेव भवति, तथाहि-चतुर्दशरज्ज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयामेदतया al योगपद्य संस्पर्शात् तावन्मात्रता परमाणोः स्यात् , प्रदेशयोर्लोकान्तद्वयगतयोक्यमित्यादिकमसम्यगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा-विस्रसापरिणामेन शीघ्रगतित्वात् परमाणोरेकसमयेनासङ्ख्येयप्रदेशातिक्रमणं, यथा हि अङगुलिद्रव्यमेकसमयेनासङ्ख्येयानप्याकाशप्रदेशानतिलङ्घयति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेऽनुमानमन्वेष्टव्यं, तथाहि-यद्यनेकप्रदेशातिक्रमणं सामयिकं न भवेत् ततोऽङ्गुलमात्रमपि क्षेत्रमसङ्ख्येयसमयातिक्रमणीयं स्यात् , तथा च सति दृष्टेष्टवाधाऽऽपद्यतेति यत्किञ्चिदेतत् ४ । साम्प्रतं भङ्गकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्य शङ्काविनिकित्सादिरहितस्य सतस्तद्वस्तु यत्नेन तथारूपतया भावितं तत्सम्यग्वा स्यदसम्यग्वा, तथापि तस्य तत्र सम्यगुत्प्रेक्षया-पर्यालोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचित्पाण्युपमर्दवत् । । साम्प्रतमेतद्विपर्ययमाह-असम्यगिति किश्चिद्वस्तु मन्यमानस्य शङ्का म्यादर्वाग्दर्शितया छद्मस्थस्य सतस्तद्वस्तु सम्यग्वा स्यादसम्यग्वा, तस्य तदसम्यगेवोत्प्रेक्षया, असम्यग्पालोचनतयाऽशुद्धाध्यवसायतयेतियावत् , 'यद्यथा शङ्कयेत्तत्तथैव समापद्यते'ति वचनादिति ६ ॥ यदिवा-"समियंति मन्न-1 माणस्स" इत्याद्यन्यथा व्याख्यायते-शमिनो भावः शमिता 'इतिः' उपप्रदर्शने तामेतां शमितां मन्यमानस्य शुभाध्यवसायिनः 'एकदे'न्युत्तरकालमपि शमितेव भवति-उपशमवत्तेवोपजायते, अन्यस्य तु शमितामपि मन्यमानस्य
॥४४३॥ कषायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति । तदेवं सम्यगसम्यगित्येवं पर्या

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472