Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 454
________________ श्रीआचा सम्य. ५ उद्देशका ५ रावृत्तिः (चीलाङ्का.) .४४०॥ वरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्काविचिकित्सादिरहित इदं भावयेत् , यथा-तदेवक सत्यम्-अवितथं, 'निःशङ्कमिति अहंदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्यवर्थेम्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्काः निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशक, यत्किमपि धर्माधर्माकाशपुद्गलादि प्रवेदितं, के-'जिनैः' तीर्थकरै रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं पिंधेयं सम्यक्पदार्थानवगमेऽपि, न पुनर्विचिकित्सा कार्येति । किं यतेरति विचिकित्सा स्यायेनेदमभिधीयते !, संसारान्तर्वत्तिनो मोहोदयात्तत्कि ? यन्न स्यादिति, तथा चागमः- 'अस्थि भते । समणावि निग्गंथा कंखामोहणिज्ज कम्मं वेदेति ?, हंता अस्थि, कहन्नं समणावि णिग्गंथा कंखामोहणिजे कम्मं वेदेति , गोअमा! तेसु तेसु नाणन्तरेसु चरितंतरेसु संकिया कंखिया विइगिच्छासमावन्ना भेयसमावन्ना कलससमावन्ना, एवं खल गोयमा! समणावि निग्गंथा कंखामोहणिज्ज कम्मं वेदंति, तत्थालेषणं 'तमेव सच्चं णीसंकं जं जिणेहिं पवेइयं', से णणं भंते ! एवं मणं धारेमाणे आणाए आरहए भवति , हता गोअमा! एवं मण धारेमाणे आणाए आराहए भवति" किं चान्यत् ?-वीतरागा हि १ मस्ति भदन्त ! श्रमणा अपि निग्रन्थाः काङ्क्षामोहनीय कर्म वेदयन्ति ?, हन्त मस्ति, कथ श्रमणा अपि निग्रन्थाः काक्षामोहनीय कर्म वेदयन्ति ?, गौतम ! तेषु तेषु ज्ञाना तरेषु चरित्रान्तरेषु शङ्किताः काक्षिता विचिकित्सासमापन्ना भेदममापन्नाः कालुष्यसमापन्नाः, एवं खलु गौतम ! श्रमणा अपि निप्रन्थाः काङ्क्षामोहनीयं कमें वेदयन्ति, तत्रालम्बन 'तदेव सत्य निश्शङ्क यज्जिनेः प्रवेदितम्' । अथ नूनं भदन्त ! एवं मनो धारयन् आज्ञाया भाराधको भवति ?, हन्त गौतम ! एवं मनो धारयन् आज्ञाया आराधको भवति ।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472