Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 453
________________ Ka मनुगच्छन्ति--आचार्योक्तं प्रतिपद्यन्ते, तथा 'असिता वा' गृहवा(पा)सविमुक्ता वा 'एके विचिकित्सादिरहिता आचार्य॥४३९॥ मार्गमनुगच्छन्ति । तेषां च मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतः प्रतिपद्यतापीति दर्शयितुमाह--आचायोक्तं सम्यक्त्वमनुगच्छद्भिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽनुगच्छन्- अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ?, असदनुष्ठानस्य, मिथ्यात्वादिरूपां विचिकित्सा परित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यतेत्यर्थः, यदिवा सितासितैराचार्योक्तमनुगच्छद्भिः-अवगच्छद्भिर्बुध्यमानः सद्भिः कश्चिदज्ञानोदयान्मतिजाडयतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन्--अनवधारयन् कथं न निविद्येत ?, न निर्वेदं तपःसंयमयोर्गच्छेत् , निर्विष्णश्चेदमपि भावयेत् , यथा--नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवं च निर्विण्णस्याचार्याः समाधिमाहुः--यथा--भोः साधो! मा विषादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यक्त्वमभ्युपगतं, तच्च न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अमावादिति भावः ॥ किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्तः, तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयविजृम्भितं. तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह. तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं ॥ सू० १६२॥ यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषभयसिद्धदृष्टान्तसम्यग्हेत्वभावाच्च ज्ञाना ॥४३९॥

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472