Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥४३७॥
'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् ?-जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम् , स च किम्भूतः स्यादित्याह-'सः' आचार्योऽक्षोभ्यहृदकल्पः, 'सर्वतः सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुप्त्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराह--इह मनुष्यलोके 8 पूर्वव्यावर्णितस्वरूपाः 'महर्षयो' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूनास्ते महर्षय इत्यत आह-न केवलमाचार्या हृदकल्पा ये चान्ये साधवस्तेऽपि हृदकल्पाः, किंम्भूताः १-प्रकर्षण ज्ञायतेऽनेनेति प्रज्ञानं--स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञानवन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयगहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि-'प्रबुद्धाः' प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततत्त्वाः प्रबुद्धा! तथाभृता अपि कर्मगुरुत्वान्न सावद्यानुष्ठानविरतिं कुयु रित्यतो विशेषयति-'आरम्भोपरता' आरम्भः-सावद्यो योगस्तस्मादुपरता
आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत एव कुशाग्रीयया बुड्या विचार्यमित्याह-एतद्यन्मया प्रागुक्तं तत्सम्यग मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत । अपि चैतत्पश्यत-'काल' समाधिमरणकालस्तदभिकाङ्क्षया साधवो मोक्षाध्वनि संयमे परि:--समन्ताद्वजन्ति परिव्रजन्ति-उद्यच्छन्ति, इतिरधिकारपरिसमाप्ती, बबीमीत्येतत्प्रकरणो. देशकाध्ययनश्रुतस्कन्धानपरिसमाप्तौ प्रयुज्यते, तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति ॥ आचार्याधिकार परिसमापय्य
B४३७॥ विनेयवक्तव्यतामाह

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472