Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥ अथ पञ्चमाध्ययने पञ्चमोद्देशकः ॥ उक्तश्चतुर्थोद्देशकः साम्प्रतं पश्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः प्रदर्शिताः, अतस्तान् परिजिहीर्षणा सदाऽऽचार्यसेविना भवितव्यम् , आचार्येण च हृदोपमेन भाव्यं तदन्तेवासिना च तपासंयमगुप्तेन निःसङ्गेन च विहर्त्तव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से बेमि तंजहा-अवि हरए पडिपुण्णे समंसि भोमे चिट्ठह उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमझगए से पास सव्वओ गुत्ते, पास लोए महेसिणो जे य पन्नाण. मंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति
त्तिबेमि ॥१६॥ सेशब्दम्तच्छब्दार्थे, यद्गुण आचार्यों भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, अपिशब्दो भङ्गसमुच्चयार्थः, ते चामी भङ्गाः-एको हृदो-जलाशयः परिगलस्रोताः पर्यागलस्रोताच, सीतासीतोदाप्रवाहहदवत् , अपरस्तु परिगलत्स्रोताः, नो पर्यागलतस्रोताः, पद्महदवत् , तथा परो नो परिगलस्रोताः पर्यागलस्रोताच, लवणोदधिवत् , अपरस्तु नो परिगत्स्रोता नो पर्यागलस्रोताच, मनुष्यलोकार्बहिः समुद्रवत् । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् , साम्परायिककर्मापेक्षया तु द्वितीयमङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया अप्रतिश्रावित्वात् , कुर्माग

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472