Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 447
________________ ॥४३३ ॥ व्यवच्छिन्द्याद् , अपि पातं विदध्यात् अप्युद्वन्धनं कुर्यात् न च स्त्रीषु मनः कुर्यादित्याह च-अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत , तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्तं च-"काम ! जानामि ते रूपं, संकल्पास्किल जायसे । न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ॥१" किं पुनः कारणं स्त्रीषु मनो न विधेयमित्याह-स्त्रीसङ्गप्रसक्तानामपरमार्थदृशां 'पूर्व प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिकदुःखरूपा दण्डाः, ते च स्त्रीसम्भोगात्प्रथममेव क्रियन्त इति पूर्वमित्युक्तं, पश्चाच्च विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा स्त्रयाद्यकार्यप्रवृत्तस्य पूर्व दण्डपाताः पश्चाद्धस्तपादच्छेदादिकाः स्पर्शा भवन्ति, यदिवा पूर्व स्पर्शाः पश्चाद्दण्डपाता इति, अथवा पूर्व दण्डा:-ताडनादिकाः पश्चात्स्पर्शाः-सम्बाधनालिङ्गनचुम्बनादिकाः, तद्यथा-वन्धानीतावरुद्धराजकुमारीगवावक्षिप्तपतदावीलग्रहणाद्राजपुरुषावलोकनताडनेन मूछितराजकुमारीतदर्शनतो वणिगिन्द्रदत्तस्याग्रतो दण्डाः पश्चात्स्पर्शा इति, पूर्व वा सुखादिस्पर्शाः पश्चाद्दण्डा ललिताङ्गकस्येवान्येषां चोपपतीनामिति । किं च-इत्येते स्त्रीसम्बन्धाः कलह -सङ्ग्रामस्तत्रासङ्गः-संबन्धस्कलहासङ्गस्तत्करा भवन्ति, यदिवा कलह:-क्रोधः आसङ्गो-राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याह-ऐहिकामुष्मिकापायतः स्त्रीसङ्गप्रत्युपेक्षया 'आगमेत्त'त्ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपारसमाप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण-दुःखं च ताः परिहर्त्तमिति । पुनरपि तत्परिहरणोपायमाह-'स' स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यका शृङ्गारकथा वा नो कुर्यात् , एवं च तास्त्यक्ता

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472