Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कुज्जा, अवि उडदं ठाणं ठाइज्जा अवि गामाणगामं दृइन्जिज्जा अवि आहार बुच्छिदिज्जा अवि चए इत्थीसु मणं, पुव्वं दंडा पच्छा फासा पुवं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति, पडिलेहाए आगमित्ता आणविजा अणासेवणाए त्तिमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामए णो कयकिरिए वइगुत्ते अज्झप्पसंखुडे परिवजह सया पावं एये मोज समणवासिज्जासित्तिबेमि
॥ सू० १५९॥ इति चतुर्थ उद्देशकः ॥ ५-४॥ 'स' माधुः प्रभृतं प्रमादविपाकादिकमतीतानागतवर्तमानं वा कर्मविपाकं द्रष्टु शीलमस्येति प्रभृतदर्शी, साम्प्रतेक्षितया न यतकिश्चनकारीत्यर्थः, तथा प्रभूतं सत्वरक्षणोपायपरिज्ञानं संसारमोक्षकारणपरिज्ञानं वा यग्य स प्रभृतपरिज्ञान:, यथावस्थितसंसारस्वरूपदर्शीत्यर्थः, किं च--उपशान्तः कषायानुदयादिन्द्रियनोइन्द्रियोपशमाद्वा, तथा पञ्चभिः समितिभिः समितः सम्यग्वा मोक्षमार्गमितः ममितः, तथा ज्ञानादिभिः सहितः--समन्वितः सह हितेन वा सहितः, 'सदा' सर्वकालं यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन प्रमादजनितम्य कर्मणोऽन्तं विधत्ते । स च स्व्याद्यनुकूलपरीषहोपपत्ती किं विदध्यादित्याह-'दृष्टवा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं 'विप्रतिवेदयति' पर्यालोचयति, तद्यथा--सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तपश्चमहाव्रतमारः शरच्छशाङ्कनिर्मलकुललब्धजन्मा अकार्याकरणतयोस्थित इन्येवमात्मानं पर्यालोचयति, तं च वीजनं किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपसर्गा

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472