Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥ ४२६ ॥
लोगवेयणबिज्जावडियं, जं आउट्टिकयं कंमं तं परिन्नाय विवेगमेह, एवं से अप्पमाएण विवेगं कि वेयवी । सू० १५८ ॥
'स' भिक्षुः सदा गुर्वादेशविधायी एतद्वयापारवान् भवति, तद्यथा - अभिक्रामन् - गच्छन् प्रतिक्रामन् -- निवर्त्तमानः सङ्कुचन हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्त्तमानः समस्ताशुभव्यापारात्, सम्यक् परि:समन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृज्न-परिमृजन् गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयं तत्र निविष्टस्य विधि - भूम्यामेकमूरु व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुतया भूम प्रत्युपेक्ष्य प्रमाय च कुक्कुटीविजृम्भितदृष्टान्तेन सङ्कोचयेत् प्रसारयेद्वा, स्वपन्नपि मयुग्वत्स्वपिति, स किलान्यसत्वमयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्त्तनादिकाः क्रिया विधत्ते, इत्येवमादि संपरिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदवश्यंभावितया यत्स्यात्तदाह - 'एकदा कदाचित्, 'गुणसमितस्य' गुणयुक्तस्याप्रमत्ततया यतेः 'रीयमाणस्य' सम्यगनुष्ठानवतोऽभिक्रामतः परिक्रामतः सकुचतः प्रसारयतो विनिवर्त्तमानस्य संपरिमृजतः कस्याश्चिदवस्थायां कायः -- शरीरं तत्संस्पर्शमनुचीर्णाः -- कायसङ्गमागताः सम्पातिमादयः प्राणिनः एके परितापमाप्नुवन्ति एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थां तु सूत्रेणेव दर्शयति-- एके 'प्राणाः' प्राणिनः 'अपद्रान्ति' प्राणैर्विमुच्यन्ते, अत्र च कर्म्मबन्धं प्रति विचित्रता, तथाहिशैलेrयवस्थायां मशकादीनां काय संस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारण योगाभावान्नास्ति बन्धः, उपशान्तक्षीण
॥ ४२ ॥

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472