SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ॥ ४२६ ॥ लोगवेयणबिज्जावडियं, जं आउट्टिकयं कंमं तं परिन्नाय विवेगमेह, एवं से अप्पमाएण विवेगं कि वेयवी । सू० १५८ ॥ 'स' भिक्षुः सदा गुर्वादेशविधायी एतद्वयापारवान् भवति, तद्यथा - अभिक्रामन् - गच्छन् प्रतिक्रामन् -- निवर्त्तमानः सङ्कुचन हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्त्तमानः समस्ताशुभव्यापारात्, सम्यक् परि:समन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृज्न-परिमृजन् गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयं तत्र निविष्टस्य विधि - भूम्यामेकमूरु व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुतया भूम प्रत्युपेक्ष्य प्रमाय च कुक्कुटीविजृम्भितदृष्टान्तेन सङ्कोचयेत् प्रसारयेद्वा, स्वपन्नपि मयुग्वत्स्वपिति, स किलान्यसत्वमयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्त्तनादिकाः क्रिया विधत्ते, इत्येवमादि संपरिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदवश्यंभावितया यत्स्यात्तदाह - 'एकदा कदाचित्, 'गुणसमितस्य' गुणयुक्तस्याप्रमत्ततया यतेः 'रीयमाणस्य' सम्यगनुष्ठानवतोऽभिक्रामतः परिक्रामतः सकुचतः प्रसारयतो विनिवर्त्तमानस्य संपरिमृजतः कस्याश्चिदवस्थायां कायः -- शरीरं तत्संस्पर्शमनुचीर्णाः -- कायसङ्गमागताः सम्पातिमादयः प्राणिनः एके परितापमाप्नुवन्ति एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थां तु सूत्रेणेव दर्शयति-- एके 'प्राणाः' प्राणिनः 'अपद्रान्ति' प्राणैर्विमुच्यन्ते, अत्र च कर्म्मबन्धं प्रति विचित्रता, तथाहिशैलेrयवस्थायां मशकादीनां काय संस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारण योगाभावान्नास्ति बन्धः, उपशान्तक्षीण ॥ ४२ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy