________________
भीआचा राजवृत्तिः (चीलाङ्का.)
सम्य०५ उद्देशकः ४
॥४३०॥
मोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिका, अप्रमत्तयतेर्जघन्यतोऽन्तमुहूर्तमुत्कृष्टतश्चान्ताकोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्धः उत्कृष्टतश्च प्राक्तन एव विशेषिततरः । स च तेनैव भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-ह-अस्मिन् लोके -जन्मनि वेदनम्-अनुभवनमिहलोकवेदनं तेन वेद्यम् - अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितं, इदमुक्तं भवति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म कायसङ्घट्टनादिना तदैहिकमवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुट्टीकृतकर्मणि तु यद्विधयं तदाह-यन पुनःकाकुट्टया कृतम्-आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया 'विवेकमेति' विविच्यतेऽनेनेति विवेक:--प्रायश्चित्तं दशविधं तस्यान्यतरं मेदमुपैति, तद्विवेकं वाअमावाख्यमुपैति--तत्करोति येन कर्मणोऽभावो भवति । यथा च कर्मणो विवेको भवति तथा दर्शयितुमाह-एव मिति वक्ष्यमाणेन प्रकारेण 'से' तस्य कर्मणः साम्परायिकरय मदा वेदविद् 'अप्रमादेन' प्रमादाभावेन दशविधप्रायश्चित्तान्यतरभेदसम्यगनुष्ठानेन 'विवेकम्' अमावं कीर्तयति 'वेदवित्' तीर्थकरो वेदविद्वा-आगमविद्गणधरश्चतुर्दशपूर्वविद्वति ॥ किम्भूतः पुनरप्रमादवान् भवतीत्याह
से पभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए, दह्र विप्पडिवेएइ अप्पाणं किमेस जणो करिस्सई, एस से परमारामो जाओ लोगंमि इत्थोओ, मुणिणा हु एवं पवेइयं, उब्बाहिबमाणे गामधम्महिं अवि निबलासए अवि ओमोयरियं
४३०॥