Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥४२३॥
मिक्षणशीलो मिस्तस्य, किम्भूतस्य ?-अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यां स्यात, तत्र श्रुताव्यक्तो येनाचारप्रकल्पोऽर्थतो नाधिगतो भवति गच्छगतानां तमिर्गताना तु नवमपूर्वतृतीयवस्त्विति, वयसा चाव्यक्त आषोडशवर्षादगच्छगतानां तमिर्गतानां च त्रिंशत इति, अत्र चतुभेङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कन्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, तस्याप्ये कचर्या न कल्पते, अगीतार्थत्वादुमयविराधनासद्भावादिति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापि न कल्पते, पालतया सर्वपरिभवास्पदत्वाद् विशेषतः स्तनकुलिङ्गादीनामिति तृतीयः, यस्तूमयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम, अस्यापि कारणाभ वे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्या भाषेषणादिविषया बहवो दोषाः प्रादुष्पन्ति, तथाहि-एकाकी पर्यटन् यदीर्यापथं शोधयति ततः श्वाधुपयोगाद्मश्यति तदुपयुक्तश्चेन्नेर्यापथं शोधयेदित्यादिकाः शेषा अपि समितयो वाच्याः, अन्यच्च-अजीर्णेन वातादिक्षोभेण वा व्याध्युद्भवे संयमात्मविराधना प्रवचनहीलना च, तत्र यदि करुणापना गृहस्थाः प्रतिजागरणं कुयु स्तह्य ज्ञानतया षटकायोपमर्दनं कुर्वाणाः संयमबाधामापादयेयुः, अथ न कश्चित्तत्र तथाभूतः कर्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्तित्वात् प्रवचनहीलना, अपि च-प्रामादि
व्यवस्थितः सन् धिगजात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डि भण्डनं विदध्यात, बतच गच्छगतस्य न सम्भवति, गुर्नाद्युपदेशसम्भवाद, तदुक्तं च-“'अक्कोसहणणमारणधम्मभंसाण बाल
१ आक्रोशवधमारणधर्मभ्रंशानां पालसुलभानाम् । लाभं मन्यते धीरः यथोत्तराणामभावे ॥१॥

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472