SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ॥४२३॥ मिक्षणशीलो मिस्तस्य, किम्भूतस्य ?-अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यां स्यात, तत्र श्रुताव्यक्तो येनाचारप्रकल्पोऽर्थतो नाधिगतो भवति गच्छगतानां तमिर्गताना तु नवमपूर्वतृतीयवस्त्विति, वयसा चाव्यक्त आषोडशवर्षादगच्छगतानां तमिर्गतानां च त्रिंशत इति, अत्र चतुभेङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कन्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, तस्याप्ये कचर्या न कल्पते, अगीतार्थत्वादुमयविराधनासद्भावादिति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापि न कल्पते, पालतया सर्वपरिभवास्पदत्वाद् विशेषतः स्तनकुलिङ्गादीनामिति तृतीयः, यस्तूमयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम, अस्यापि कारणाभ वे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्या भाषेषणादिविषया बहवो दोषाः प्रादुष्पन्ति, तथाहि-एकाकी पर्यटन् यदीर्यापथं शोधयति ततः श्वाधुपयोगाद्मश्यति तदुपयुक्तश्चेन्नेर्यापथं शोधयेदित्यादिकाः शेषा अपि समितयो वाच्याः, अन्यच्च-अजीर्णेन वातादिक्षोभेण वा व्याध्युद्भवे संयमात्मविराधना प्रवचनहीलना च, तत्र यदि करुणापना गृहस्थाः प्रतिजागरणं कुयु स्तह्य ज्ञानतया षटकायोपमर्दनं कुर्वाणाः संयमबाधामापादयेयुः, अथ न कश्चित्तत्र तथाभूतः कर्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्तित्वात् प्रवचनहीलना, अपि च-प्रामादि व्यवस्थितः सन् धिगजात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डि भण्डनं विदध्यात, बतच गच्छगतस्य न सम्भवति, गुर्नाद्युपदेशसम्भवाद, तदुक्तं च-“'अक्कोसहणणमारणधम्मभंसाण बाल १ आक्रोशवधमारणधर्मभ्रंशानां पालसुलभानाम् । लाभं मन्यते धीरः यथोत्तराणामभावे ॥१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy