SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ ४२४ ॥ सुलभाणं । लाभ मण्णइ घोरो जह्नुत्तराणं अभावमि || १ ||" इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽ-नुशास्यते, गच्छनिर्गतस्य पुनर्दोषा एव केवला इति उक्तं च- "" साहंमिएहिं संमुज्जएहिं एगागिओ अ जो विहरे । आयकपरयाए ठक्कायवहंमि आवडह || १ || 'एगागिअस्स दोसा इत्थी साणे तदेव पडिfty | भिक्खविसोहि महव्वय तम्हा सबिइज्जए गमणं ॥ २ ॥" इत्यादि, गच्छान्तर्वर्त्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यत विहाराभ्युपगमात् यथाहि उदके समर्थस्तरनपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेयुद्यतविहायपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तविहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेति स्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, कोहि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेका किविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपि कर्म्मपरिणतेरशक्यमस्ति तथाहि - स्वातन्त्र्य गदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभृतस्याशेष कल्याणनिकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वर्त्तिनः क्वचित्प्रमादस्खलिते चोदिताः अवगणय्य सदुपदेशमपर्यालोच्य समविचार्य कषायविपाककटुकशामनवधार्य परमार्थं पृष्ठतः कृत्वा कुलपुत्रतां वाङ्मात्रादपि केचित्को पनिघ्नाः **** १ साधर्मिकेषु सम्यगुद्यतेषु एकाकी च यो विहरेत् । भातप्रचुरतायां पटकायवधे स पतति ॥ १ ॥ २ एकाकिनो दोषाः स्त्री श्वा तथैव प्रत्यनीकः । मिक्षाऽविशोधिः महाव्रतेषु तस्मात्सद्वितीयेन गमनम् ॥ २ ॥ सम्य० ५ उद्दे शका ३ ॥ ४२४ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy