Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
भीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥ ४२४ ॥
सुलभाणं । लाभ मण्णइ घोरो जह्नुत्तराणं अभावमि || १ ||" इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽ-नुशास्यते, गच्छनिर्गतस्य पुनर्दोषा एव केवला इति उक्तं च- "" साहंमिएहिं संमुज्जएहिं एगागिओ अ जो विहरे । आयकपरयाए ठक्कायवहंमि आवडह || १ || 'एगागिअस्स दोसा इत्थी साणे तदेव पडिfty | भिक्खविसोहि महव्वय तम्हा सबिइज्जए गमणं ॥ २ ॥" इत्यादि, गच्छान्तर्वर्त्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यत विहाराभ्युपगमात् यथाहि उदके समर्थस्तरनपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेयुद्यतविहायपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तविहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेति स्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, कोहि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेका किविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपि कर्म्मपरिणतेरशक्यमस्ति तथाहि - स्वातन्त्र्य गदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभृतस्याशेष कल्याणनिकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वर्त्तिनः क्वचित्प्रमादस्खलिते चोदिताः अवगणय्य सदुपदेशमपर्यालोच्य समविचार्य कषायविपाककटुकशामनवधार्य परमार्थं पृष्ठतः कृत्वा कुलपुत्रतां वाङ्मात्रादपि केचित्को पनिघ्नाः
****
१ साधर्मिकेषु सम्यगुद्यतेषु एकाकी च यो विहरेत् । भातप्रचुरतायां पटकायवधे स पतति ॥ १ ॥ २ एकाकिनो दोषाः स्त्री श्वा तथैव प्रत्यनीकः । मिक्षाऽविशोधिः महाव्रतेषु तस्मात्सद्वितीयेन गमनम् ॥ २ ॥
सम्य० ५ उद्दे शका ३
॥ ४२४ ॥

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472