Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 426
________________ भीआचारावृत्तिः (शीलाका सम्य: ५ उद्देशकः३ ॥४१२॥ स्यैवेति । किं च--'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः, कोऽसौ ?-नास्यागारं-गृहं विद्यत इत्यनगारः, स एवम्भूतो 'दीर्घरानं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् तितक्षेत' सहेत । पुनरप्युपदेशदानायाह--'पमत्ते' इत्यादि, प्रमत्तान्-विषयदिभिः प्रमादेवहिद्धर्माद्व्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्टा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किं च--'एय' मित्यादि, 'एतत्' पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौन-सर्वज्ञोक्तं सम्यग् 'अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत । लोकसागध्ययने द्वितीयोद्देशकः समाप्तः॥ ५-२॥ -:०::०:॥ अथ पञ्चमाध्ययने तृतीयोद्दशकः ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरम्यते-अस्य चायमभिसम्बन्धः--इहानन्तरोक्तोद्देशकेऽविरतवादी परिग्रहवानित्यमिहितम् , इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्-- आवंती केयावंती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्य मए संधी झोसिए एवमन्नत्थ संघी दुज्जोसए भवइ, तम्हा बेमि नो निहणिज्ज वीरियं ॥ सू० १५१॥ यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव--अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रह ॥ ४१२ ॥

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472