Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 427
________________ वन्तो भवन्ति, यदिवैतेष्वेव षट्सु जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति । स्यात्--कथमपरिग्रहभावः स्यादि॥४१३॥ त्याह--'सोचा' इत्यादि, 'वई'त्ति सुव्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाच-तीर्थकराज्ञामागमरूपां 'श्रुत्वा' आकर्ण्य 'मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा 'पण्डिताना' गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिगवरणज्ञानानां तीर्थकता वाग्योगो भवति येनासावाकर्ण्यते ?, उच्यते, धर्मकथाऽवसरे, किम्भूतस्तै' पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह--'समिय'त्ति 'समत्ता' समशत्रुमित्रता तयाऽऽयेईम्भः प्रवेदित इति, उक्तं च-"'जो चंदणेण बाई आलिंपइ वासिणा व तच्छेति । संथुणइ जो अणिदति महेसिणो तत्थ समभावा ॥१॥" यदिवाऽऽर्येषुदेशभाषाचरित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्--''जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई"त्यादि, अथवा शमिनो भावः शमिता तया सबहेयधारातीयवर्तिभिः आर्यैः प्रकर्षणादौ वा धम्मों वेदितः । प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्मः प्रज्ञापित इलियावत् । स्याद्--अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तदव्युदासार्थ भगवानेवाह-'जत्थेत्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह--यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियRaनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वतः एव सन्धानं सन्धिः--कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः--अष्टप्रकारकर्मसन्ततिरूपः स झोषित:-क्षपितः अतो य एव तीर्थकृद्भिर्द्धर्मोऽभिहितः स एव मोक्षमागों नापर यश्चन्दनेन वाह मालिम्पति वास्या वा तणोति । संस्तौति यश्च निन्दति महर्षयस्तत्र समभावाः॥१॥

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472