________________
वन्तो भवन्ति, यदिवैतेष्वेव षट्सु जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति । स्यात्--कथमपरिग्रहभावः स्यादि॥४१३॥ त्याह--'सोचा' इत्यादि, 'वई'त्ति सुव्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाच-तीर्थकराज्ञामागमरूपां 'श्रुत्वा' आकर्ण्य
'मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा 'पण्डिताना' गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिगवरणज्ञानानां तीर्थकता वाग्योगो भवति येनासावाकर्ण्यते ?, उच्यते, धर्मकथाऽवसरे, किम्भूतस्तै' पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह--'समिय'त्ति 'समत्ता' समशत्रुमित्रता तयाऽऽयेईम्भः प्रवेदित इति, उक्तं च-"'जो चंदणेण बाई आलिंपइ वासिणा व तच्छेति । संथुणइ जो अणिदति महेसिणो तत्थ समभावा ॥१॥" यदिवाऽऽर्येषुदेशभाषाचरित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्--''जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई"त्यादि, अथवा शमिनो भावः शमिता तया सबहेयधारातीयवर्तिभिः आर्यैः प्रकर्षणादौ वा धम्मों वेदितः । प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्मः प्रज्ञापित इलियावत् । स्याद्--अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तदव्युदासार्थ भगवानेवाह-'जत्थेत्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह--यथाऽत्र मया ज्ञानादिको
मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियRaनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वतः एव सन्धानं सन्धिः--कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः--अष्टप्रकारकर्मसन्ततिरूपः स झोषित:-क्षपितः अतो य एव तीर्थकृद्भिर्द्धर्मोऽभिहितः स एव मोक्षमागों नापर
यश्चन्दनेन वाह मालिम्पति वास्या वा तणोति । संस्तौति यश्च निन्दति महर्षयस्तत्र समभावाः॥१॥