________________
भीआचारावृत्तिः (शीलाका
सम्य: ५ उद्देशकः३
॥४१२॥
स्यैवेति । किं च--'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः, कोऽसौ ?-नास्यागारं-गृहं विद्यत इत्यनगारः, स एवम्भूतो 'दीर्घरानं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् तितक्षेत' सहेत । पुनरप्युपदेशदानायाह--'पमत्ते' इत्यादि, प्रमत्तान्-विषयदिभिः प्रमादेवहिद्धर्माद्व्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्टा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किं च--'एय' मित्यादि, 'एतत्' पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौन-सर्वज्ञोक्तं सम्यग् 'अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत । लोकसागध्ययने द्वितीयोद्देशकः समाप्तः॥ ५-२॥
-:०::०:॥ अथ पञ्चमाध्ययने तृतीयोद्दशकः ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरम्यते-अस्य चायमभिसम्बन्धः--इहानन्तरोक्तोद्देशकेऽविरतवादी परिग्रहवानित्यमिहितम् , इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्--
आवंती केयावंती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्य मए संधी झोसिए
एवमन्नत्थ संघी दुज्जोसए भवइ, तम्हा बेमि नो निहणिज्ज वीरियं ॥ सू० १५१॥ यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव--अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रह
॥ ४१२ ॥