________________
.४११॥
लोकवित्तं लोकवृत्तं वा आहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयाय पुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरेत् । तत्परिहर्नुश्च यत्स्यात्तदाह-एए संगे' इत्यादि, 'एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसङ्गान् वा 'अविजानतः अकुर्वाणस्य तत्परिग्रहजनितं महाभयं न स्यात् ।। किंच
से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिकमा, एएसु चेव बंभचेर तिमि से सुयं च मे अज्झत्थयं च मे-बंधपमुक्खो अज्झत्थेव, इत्य विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिव्वए, एयं मोणं सम्मं अणु
वासिज्जासि तिबेमि ॥ सू० १५०॥इति द्वितीय उद्देशकः ॥५-२॥ 'से' तस्य परिग्रहपरिहर्तुः सुष्टु प्रतिबद्धं सुप्रतिबद्धं सुष्ट्रपनीतं सूपनीतं ज्ञानादि इत्येतत् ज्ञात्वा 'हे पुरुष ! मानव ! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षकदृष्टि सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वा पराक्रमम्वेति । अथ किमर्थ पराक्रमणोपदेश इत्यत आह–'एएसु चेवे' त्यादि, य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्य नान्येषु, नवविधब्रह्मचर्यगुप्त्यभावाद् , यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्य तदेतेष्वेवापरिग्रहवत्सु, इतिरधिकारपरिसमाप्ती, ब्रवीम्यहं यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह-से सुरं च मे इत्यादि, तद्यत् कथितं यच्च कथयिष्यामि तच्छुतं च मया तीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्म ममैतच्चेतसि व्यवस्थित किं तदध्यात्मनि स्थितमिति दर्शयति-बन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा 'अध्यात्मन्येव' ब्रह्मचर्ये व्यवस्थित