________________
भीआचाराजवृत्तिः
(शीलावा.
.४१४॥
इत्येतदेवाह-यथाऽत्र मया सन्धिोषितः एवमन्यत्र--अन्यतीर्थिकप्रणीते मोक्षमार्ग सन्धिः--कर्म सन्ततिरूपः दुझोंप्यो
सम्य. ५ भवति--दुश्मयो भवति, असमीचीनतया तदुपायाभावाद् , यदि नाम भगवताऽत्र कर्मसन्धिोषितस्ततः किमित्याह
उद्देशकः३ यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेण तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्य 'नो निहन्यात नो निगूहयेद् अनिगृहितबलवीयों भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशदायीत्येतद्वीरवर्द्धमान स्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ॥ कश्चैवम्भूतः स्यादित्याह--
जे पुवुट्ठाई नो पच्छानिवाई, जे पुव्वुहाई पच्छानिवाई, जे नो पुवुट्ठायी नो पच्छा. निवाई, सेऽपि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति ॥ सु. १५२॥ यः कश्चिद्विदितसंमारस्वभावतया धर्मचरणकप्रवणमनाः पूर्व--प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातु शीलमस्येति पूर्वोस्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितु शोलमस्येति विगृह्य णिनिः निपतनं वा निपातः सोऽस्यास्तीति निपाती, हिंसतया निष्क्रान्तः हिंसतया विहारी च गणधरादिवत् प्रथमो भङ्गः। द्वितीयभङग सूत्रेणव दर्शयन्नाह-'जे पुब्बुट्ठाई पच्छानिवाई'इत्यादि, पूर्वमुत्थातु शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियोगात्पश्चान्निपाती स्यात् , नन्दिषेणवत् , कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति । तृतीयभङ्गस्य चाभावदनुपादानं, स चायम्-'जे नो पुट्ठायी पच्छानिवाती' तथाहि--उत्थाने सति निपातोs
Rugga निपातो वा चिन्त्यते, सति धम्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूगेत्सादितैव निपातचिन्तेति । चतुर्थमङ्गदर्शनाय