________________
॥४१५॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
वाह-वो हि नो पूर्वोत्थायी न च पश्चाभिपाती सोऽविरत एवं गृहस्थः सन्नोत्थायी भवति सम्यग्विरतेरभावात नापि पश्चान्निपाती उत्थानाविनामावित्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः, तेषामप्युभयासद्भावादिति । ननु च गृहस्था एव चतुर्थमङ्गपतिता युक्ता वक्तु, तथाहि-तेषां सावद्ययोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दरारोपाभावान्निपाताभावः, शाक्यादिरपि चतुर्थभङ्गपतित इत्यत आह-'सोऽपि' शाक्यादिर्गणः पञ्चमहावतभारारोपणाभावेन सावधयोगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वान्नो पश्चानिपातीत्यतस्तादृश एव-गृहस्थतुल्य एव स्याद्, आस्रवद्वाराणामुभयेषामप्यसंवृतत्वात् , उदायिनृपमारकवत् । अन्येऽपि ये सावद्यानुष्ठापिनस्तेऽपि तादृक्षा एवेति दर्शयनाह-येऽपि स्वयथ्याः पावस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थ तमेव लोकमन्वाश्रिता अन्वेषयन्ति वा तेऽपि गृहस्थतुल्या एव भवेयुः॥ स्वमनीषिकापरिहारार्थमाह
एवं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि, किं ते जुझेण
बज्झओ१॥ सू० १५३ ॥ 'एतद्' यदुत्थाननिपातादिकं प्रागुपन्यस्तं तत्केवलज्ञानावलोकनेन 'नियाय'त्ति ज्ञात्वा 'मुनिना' तीर्थकता 'प्रवेदितं' कथितम् । इदं चान्यत्प्रवेदितमित्याह--'इह' अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितः सन् 'आज्ञा' तीर्थकरोपदेशमाकाक्षितु शीलमस्येत्याज्ञाकाक्षी--आगमानुसारप्रवृत्तिका, कश्चैवम्भृतः ?--'पण्डितः' सदसद्विवेकज्ञा