________________
भीआचा
राङ्गवृत्तिः (शीलाङ्का.)
॥ ४१६ ॥
*
'अस्निहः' स्नेहरहितः । रागद्वेषविप्रमुक्तोऽहनिंशं गुरुनिर्देशवर्ती यत्नवान् स्यादित्येतदाह--पूर्वरात्र-रात्रेः प्रथमो यामोऽपररात्र-रात्रेः पाश्चात्यः एतद्यामद्वयमपि 'यतमानः' सदाचारमाचरेत्, मध्यवर्त्तियामद्वयमपि यथोक्तविधिना स्वपन वैरात्रादिकं विदध्यात्, रात्रियतन प्रतिपादनेन चापि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहण - स्यावश्यंभावित्वात् । किं च-- 'सदा' सर्वकाल' शीलम्' अष्टादशभेदसहस्रसङ्ख्यं संयमं वा यदिवा चतुर्द्धा शीलं--महाव्रतसमाधानं तिस्रो गुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्येतच्छीलं सम्प्रेच्य मोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह--यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशील निवतानां च नरकादिपातविपाकमाकर्ण्यागमात्, 'भवेत्' स्यात् 'अकाम' इच्छामदन कामरहित इति, तथा नास्य 'झञ्झा' माया लोमेच्छा वा विद्यत इत्यझञ्झः, कामझञ्झाप्रतिषेधाच्च मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-- श्रुत्वा स्यात् अकामोऽझञ्झश्चेत्यनेन चोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्यात् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यं । ननु चान्यज्जीवाच्छरीरमित्येवंभावनायुक्तस्यानिगूहित बलवीर्यस्य पराक्रममाणस्याष्टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्म्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचच्व येनाहमाश्वेव (शेष मलकलङ्करहितः स्याम् अहं च न भवदुपदेशाद् अपि सिंहेनापि सह युद्ध, न मे कर्म्मक्षयार्थं प्रवृत्तस्य किश्चिदशक्य मस्तीत्यत्रोत्तरं सूत्रेणैवाह--अनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्धं युध्यस्व इदमेव सन्मार्मावतारणतो वशीकुरु; किमपरेण बाह्यतस्ते
सम्य० ५ उद्देशकः ३
॥ ४१६ ।।