Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्य. ५
भीआचा रावृत्तिः (शीलाका.) ॥४१०॥
४
स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो बज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि. एतच्च चित्तवद्वा स्यादचित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वर्त्तिनो वतिनोऽपि स्युः, यदिवैतेष्वेव षट्सु जीवनिकायेषु विषयभृतेष्वल्पादिषु वा द्रव्येषु मृच्छा कुर्वन्तः परिग्रहवन्तो भवन्ति, यथा वा विरतो विरतिवादं बदन्नल्पादपि परिग्रहात परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेवायोज्यम् , एकदेशापगधादपि सर्वापराधितासम्भवः, अनिवारितास्रवत्वात् । यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सरजस्कबोटिकादयोऽपरिग्रहाः स्युः, तेषां तदभावात् , नैतदस्ति, तदभावादित्यसिद्धो हेतुः, तथाहि-सरजस्कानामस्थ्यादिपरिग्रहाद्बोटिकानामपि पिछिकादिपरिग्रहाद् अन्त(न्तत)श्च शरीराहारादिपरिग्रहसद्भभावात् , धर्मोपष्टम्मकत्वाददोष इति चेद् तद् इतरत्रापि समान, किं दिगम्बराग्रहग्रहेणेति । एतच्चान्पादिपरिग्रहेण परिग्रहवत्वमेकेषां परिग्रहवत्त्वमपरिग्रहाभिमानिना चाहारशरीरादिकं महतेऽनयेति दर्शयन्नाह–'एतदेवेत्यादि, एतदेव-अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्वमेकेषां-परिग्रहवता नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धर्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुञ्जानस्य कर्मबन्धजनितमहाभयहेतुत्वान्महाभयं, तथैतद्धर्मशरीरं समस्ताच्छादनामावाद्बीभत्सं परेषां महाभयं, तन्निरवद्यविधिपालनामावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते-'लोगं' इत्यादि, 'लोकस्य' असंयतलोकस्य 'वित्त' द्रव्यमन्पादिविशेषणविशिष्टं, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालङ्कारे,

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472