Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥४०५॥
एवम्भूतः सुखदुःखान्यतररूपश्च गतः एवम्भूतश्च भावीत्येवं यः क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह-एस मग्गे' इत्यादि, 'एषः' अनन्तगेक्तो 'मार्गो' मोक्षपथः 'आर्यैः सर्वहेयधर्मारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा वेदित-कथितः प्रवेदित इति । न केवलमनन्तरोक्तो वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति तदाह-'उहिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्माचरणाय क्षणमप्येकं न प्रमादयेत । किं चापरमधिगम्येत्याह-'जाणित्तु' इत्यादि, ज्ञात्वा प्राणिनां प्रत्येकं दुःखं तदुपादानं वा कर्म तथा प्रत्येकं सातं चमनआह्लादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा प्रत्येकं, तदुपादानभृतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह-'पुढो' इत्यादि, पृथग-भिन्नः छन्द:-अभिप्रायो येषां ते पृथगछन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे'ति संसारे संझिलोके वा, के ते?-'मानवाः' मनुष्याः, उपलक्षणार्थवादन्येऽपि, संज्ञिना पृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह-'पुढो' इत्यादि, दुःखोपादानमेदाद् दुःखमपि प्राणिनां पृथक् प्रवेदितं, सर्वस्य स्वकृतकर्मफलेश्वरत्वात् नान्यकृतमन्य उपभुङ्क्ते इति । एतन्मत्वा किं कुर्यादित्याह-से' इत्यादि, 'स' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तधाऽनपवदन्-अन्यथैव व्यवस्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन् , मृषावादमब वन्नित्यर्थः, पश्य च त्वं तस्यापि प्राकृतत्वादापत्वाद्वा लोपः, एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम् । एतद्विधायी च किमपरं कुर्यादित्याह-पुट्ठो' इत्यादि, स पञ्चमहावतव्यवस्थिता
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
1४०५॥

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472