Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 418
________________ भीआचारावृत्तिः (शीलाङ्का.) सम्य०५ उद्देशकः २ ॥४०४ ॥ 'यावन्त: केचन 'लोके' मनुष्यलोके 'अनारम्भजीविना, आरम्मा-सावद्यानुष्ठानं प्रमत्तयोगोवा, उक्तं च"'आदाणे निक्खेवे भासुस्सग्गे अठाणगमणाई । सव्वो पमत्तजोगो समणस्सवि होइ आरंभो॥१॥" तद्विपर्ययेण त्वनारम्भस्तेन जीवितु शीलं येषां इत्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताः तेष्वेव-गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वनारम्भजीविनो भवन्ति, एतदुक्तं भवति-सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवनिलेपा एव भवन्ति । यद्येवं ततः किमित्याह-'अत्र' अस्मिन् सावद्यागम्मे कर्तव्ये 'उपरत: सङ्कुचितगात्रः, अत्र वाऽऽहते धर्मे व्यवस्थित उपरतः पापारम्भात् , किं कुर्यात् स? 'तत्' सावद्यानुष्ठानायातं कर्म 'झोषयन्' क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह-'अयं संघी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका धावतो, यथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगे - प्ययं सन्धिरिति प्रथमा कृतेति, 'अय'मिति प्रत्यक्षगोचरापन आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणः सन्धिः ' अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभृतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भवानित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भृयात् । कश्च न प्रमत्तः म्यादित्याह-'जे इमस्स' इत्यादि, 'य' इत्युपलब्धतत्त्वः अस्य' अध्यक्षस्य विशेषेण गृह्यते अनेनाष्टप्रकार कर्म तद्वतरशरीगविशिष्टं बाद्य न्द्रियेण गृह्यत इति विग्रहा-औदारिकं शरीरं तस्य 'अयं' वार्तमानिकक्षणः १ आदाने निक्षेपे माषायामुत्सर्गे च स्थाने गमनादौ । सर्वः प्रमत्तयोगः श्रमणस्यापि भवत्यारम्भः ॥१॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ ४०४।

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472