Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
भीआचासङ्गवृत्तिः (धौलाका
सम्य• ५ उद्देशकः १
॥४०२॥
नियुक्तिः । साम्प्रतं सूत्रमनुश्रियते-तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूतः स्यादित्याह- से बहु कोहे' इत्यादि, 'स' विषयगृध्नुरिन्द्रियानुकूलवडॅकचर्याप्रतिपन्नस्तीथिको गृहस्थो वा परैः परिभृयमानो बहुः क्रोधोऽस्येति बहुक्रोधः, तथा वन्द्यमानो मानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजाः-बहुपापो बहुषु वाऽऽरम्मादिषु रतो बहुरतः, तथा नटवद्भोगार्थ बहून् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकार: शठो बहुशठः, तथा बहवः सङ्कल्पा:-कर्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौगदिनामेकचर्या वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह-'आसव' इत्यादि, आस्रवाः-हिंसादयस्तेषु सक्तं-सङ्गं आश्रवसक्तं तद्विद्यते यस्यासावाश्रवसक्ती-हिंसाधनुषगवान् पलित-कर्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत , स चैवम्भृतोऽपि किं ब्र यादित्याह-'उडिय'इत्यादि, धर्माचरणायोद्युक्तः उस्थितस्तद्वाद उत्थितवादस्तं प्रबदन , तीथिकोऽप्येवमाह-यथा अहमपि प्रवजितो धर्माचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छाद्यत इति । स चोस्थितवादी आस्रवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्तत इत्याह-'मा मे' इत्यादि, मा मां 'केचन' अन्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नमकार्य विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किं च-'सयय'मित्यादि, 'सततम्' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा 'धर्म' श्रुतचारित्राख्यं नाभिजानाति, न विवेचयतीत्यर्थः । यद्येवं ततः किंमित्याह-'अट्टा' इत्यादि, आर्ता विषयकषायैः 'प्रजायन्त' इति प्रजा:-जन्तवः हे मानव !, मनुजस्यैवोपदेशाहत्वान्मानवग्रहणं, 'कर्मणि' अष्टप्रकारे विभत्सिते 'कोविदा:' कुशलाः, न धर्मानुष्ठान
......

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472