Book Title: Acharanga Sutra Satikam Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
मीआचा
राङ्गवृत्तिः (श्रीलाङ्का.)
॥ ४०० ॥
चर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति । तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिक नियुक्त्या नियुक्तिकारो व्याचिख्यासुराह
चारो वरिया चरणं एगडं वंजणं तहिं छक्कं । दव्यं तु दारुसंकम जलथलवाराइयं बहुहा ॥ २४६ ॥ 'चार' इति 'चर गतिभक्षणयो:' भावे घञ् चर्येति 'गदमदचरयमश्चानुपसर्गे' (पा० ३-१-१००) इत्यनेन कर्मणि भावे वा यत्, चरणमिति वा, भावे न्युट्, एक:- अभिन्नोऽर्थोऽस्येत्येकार्थं, किं तत् ? – 'व्यञ्जनं' व्यज्यतेआविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनं - शब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथग् निक्षेपः, 'तत्र' चारनिक्षेपे पटकं, चारस्य षट्कारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारं गाथासकलेन दर्शयति - 'दव्वं तु' ति तुशब्दः पुनः शब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्क्रमंश्च जलस्थलचारश्च दारुसङ्क्रमजलस्थलचारौ तावादी यस्य तद्दारुमङ्क्र मजलस्थलचारादिकं 'बहुधा ' अनेकधा, तत्र दारुसङ्क्रमो जले सेत्वादिः क्रियते, स्थले वा गर्त्तलङ्घनादिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपङ्क्त्यादिरिति यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यंचार इति गाथार्थः ॥ साम्प्रतं क्षेत्रादिकमाह
वित्तं तु जमि खित्ते कालो काले जहिं भवे चारो । भावंमि नाणदंसणचरणं तु पसत्थमपसत्थं ॥२४७॥ क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यादन्तं वा कालं
सम्य० ५ उद्देशकः १
॥ ४०० ॥

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472