SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ मीआचा राङ्गवृत्तिः (श्रीलाङ्का.) ॥ ४०० ॥ चर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति । तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिक नियुक्त्या नियुक्तिकारो व्याचिख्यासुराह चारो वरिया चरणं एगडं वंजणं तहिं छक्कं । दव्यं तु दारुसंकम जलथलवाराइयं बहुहा ॥ २४६ ॥ 'चार' इति 'चर गतिभक्षणयो:' भावे घञ् चर्येति 'गदमदचरयमश्चानुपसर्गे' (पा० ३-१-१००) इत्यनेन कर्मणि भावे वा यत्, चरणमिति वा, भावे न्युट्, एक:- अभिन्नोऽर्थोऽस्येत्येकार्थं, किं तत् ? – 'व्यञ्जनं' व्यज्यतेआविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनं - शब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथग् निक्षेपः, 'तत्र' चारनिक्षेपे पटकं, चारस्य षट्कारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारं गाथासकलेन दर्शयति - 'दव्वं तु' ति तुशब्दः पुनः शब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्क्रमंश्च जलस्थलचारश्च दारुसङ्क्रमजलस्थलचारौ तावादी यस्य तद्दारुमङ्क्र मजलस्थलचारादिकं 'बहुधा ' अनेकधा, तत्र दारुसङ्क्रमो जले सेत्वादिः क्रियते, स्थले वा गर्त्तलङ्घनादिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपङ्क्त्यादिरिति यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यंचार इति गाथार्थः ॥ साम्प्रतं क्षेत्रादिकमाह वित्तं तु जमि खित्ते कालो काले जहिं भवे चारो । भावंमि नाणदंसणचरणं तु पसत्थमपसत्थं ॥२४७॥ क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यादन्तं वा कालं सम्य० ५ उद्देशकः १ ॥ ४०० ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy