________________
܀܀܀܀܀܀܀܀܀܀
नहाने प्रति विधत्ते, किं कुत्राण इत्याह--'असा'मित्यादि, कामाग्निना पापा कम्मभिः परिपन्यमानः सावद्या
नुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छाऽज्ञानतमिमाच्छादितदृष्टिविपर्ययः मन भूयो भूयो नानारूपा वेदना Ra अनुभवेदिति । आस्तां तावदन्ये, प्रवज्यामप्यभ्युपेत्य केचिद्विषयपिपामार्गस्तांस्तान् कल्काचारानाचरन्तीति दयितुमाह
हमेगेसिमित्यादि, 'इह' मनुष्यलोके एकेषां न सर्वेषां चरणं चयते वा चर्या एकस्य चर्या एकचर्या, मा च प्रशस्तेतरभेदेन द्विधा-साऽपि द्रव्यभावभेदात् प्रत्येक द्विधा, नत्र द्रव्यतो गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणं, भावतस्तु अप्रशस्ता न विद्यने, मा हि रागद्वेपविरहाद्भवति, न च तद्रहितस्याप्रशस्ततेति । प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य चेकाकिनः सादिकानिमित्तान्निर्गतस्य, भावतस्तु पुना रागद्वेषविरहाद्भवति, तत्र द्रव्यतो भावतश्चैकचर्या अनुत्पन्नज्ञानानां तीर्थकृतां प्रतिपन्नसंयमानाम् , अन्ये तु चतुर्भङ्गपतिताः, तत्राप्रशस्तद्रव्यैकचर्योदाहरणं, तद्यथा-पूर्वदेशे धान्यपूरकाभिधाने सामोशे एकस्तापसः प्रथमवया देवकुमारसदृशविग्रहः षष्ठभक्तेन तद्ग्रामनिर्गमपथे तपस्तेपे, द्वितीयोऽप्युपग्रामं गिरिगहरेऽष्टमभक्तेन तपःकर्मणाऽऽतापनां विधत्ते, तस्मै च ग्रामनिर्गमपथवर्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहागदिभिः सपर्ययोपतिष्ठते, स तथा लोकेन पूज्यमानो वाग्भिरभिष्ट्रयमानः आहारादिनोपचर्यमाणो जनमृचे-मत्तोऽपि गिरिपरिसरातापी दुष्करकारकः, ततोऽसौ लोकस्तेन भूयो भूयः प्रोच्यमानस्तमेकाकिनं तापसमद्रिकुहरवासिनं पर्यपूजयद् , दुष्करं च परगुणोत्कीर्तनमितिकृत्वा तस्यापि सपर्यादिकं व्यधात् , तदेवमाभ्यां पूजाख्यात्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैक
܀܀܀܀܀܀܀܀܀܀܀܀܀
॥३१॥