________________
सम्य. ५. उद्देशका
अट्टा पया, माणव! कंमकोविया जे अणुवरया अविजाए पलिमुक्खमाहु आवमेव भीआचा
अणपरियति त्तिमि ॥ सू० १४५॥ प्रथम उद्देशकः ॥५-१ | पासह इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादि(शीलावा.
विन्द्रियविषयेषु निःसारकटुफलेषु 'गृडान्' अध्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातना॥ ३९८॥ स्थानकेषु वा परिणीयमानान् प्राणिन इति । ते च विषयगृध्नव इन्द्रियवशगाः संसारार्णवे किमाप्नुयुरित्याह-एत्थ
फासे इत्यादि, 'अत्र' अस्मिन् संसारे हृषीकवशगः सन् कर्मपरिणतिरूपान् स्पर्शान पौनःपुन्येन-आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति । पाठान्तरं वा 'एत्थ मोहे पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भृतः स्यादित्यत आह - 'आवती'त्यादि, यावन्तः केचन 'लोके' गृहस्थलोके 'आरम्मजीविनः' सावद्यानुष्ठानस्थितिकाः, ते पौन:पुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तदुःखभाजिन इति दर्शयति-एएस'इत्यादि, 'एतेषु' सावद्यारम्भप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थ वर्तमानस्तीर्थिकः पावस्थादि 'आरम्भजीवी' सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग भवति । आस्ता तावद्गृहस्थस्तीथिको वा, योऽपि संसारार्णवतटदेशमवाप्य सम्यक्त्वरत्नं लब्ध्वाऽपि मोक्षककारणं विरतिपरिणामं सफलतामनीत्या
कम्मोदयात सोऽपि सावद्यानुष्ठायी स्यादित्याह-'एत्यविषाले इत्यादि, 'अत्र' अस्मिन्नयहत्प्रणीतसंयमाभ्युपगमे a 'बालो' रागद्वेषाकुलितः परितप्यमानः परिपच्यमानो वा विषयपिपासया रमते, कै?-पापैः कर्मभिः, विषयार्थ सावद्या
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥३१८.