________________
स कालचारः, भावे तु द्विधा चरणं-प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तं गृहस्थान्यतीथिकाणामिति गाथार्थः ।। तदेवं सामान्यतो द्रव्यादिकं चार प्रदर्श्य प्रकृतोपयोगितया यते वचारं प्रशस्तं प्रश्नद्वारेण दर्शयितुमाहलोगे चउम्विहमी समणस्स चउविही कहं चारो! होई धिई अहिगारो विसेसओ खित्तकालेसु॥२४८
लोके चतुर्विधे द्रव्यक्षेत्रकालभावरूपे 'श्रमणस्य' श्राम्यतीति श्रमणो-यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्याद् !, इति प्रश्ने निर्वचनमाह-भवति धृतिरित्येषोऽधिकारः, द्रव्ये तावदरसविरसपान्तरूक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थिकमाविते प्रकृत्यभद्रके वा नोद्वगः कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्य, भावेऽप्याक्रोशोपहसनादौ नोद्दीपितव्यं, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तन्निमित्तत्वात ।। चुनरपि द्रव्यादिकं विशेषतो यतेश्वारमाह
पावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते । उम्मगवजए रागदोसविरए य से विहरे ॥ २४९॥
'पापोपरतः पापात-पापहेतोः सावद्यानुष्ठानाद्धिसाऽनृतादत्तादानाब्रह्मरूपादुपरतः पापोपरतः, तथा न विद्यते परि| ग्रहोऽस्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः, क्षेत्रचारमाह-गुरोः कुलं गुरुकुलं-गुरुसानिध्यं तत्सेवको-युक्तः समन्वितो यावज्जीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शिता, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह-उद्गतो मार्गादुन्मार्गः-अकार्याचरणं तर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेद-संयमानुष्ठानं कुर्यादिति, गता
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥४०१॥