SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ भीआचासङ्गवृत्तिः (धौलाका सम्य• ५ उद्देशकः १ ॥४०२॥ नियुक्तिः । साम्प्रतं सूत्रमनुश्रियते-तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूतः स्यादित्याह- से बहु कोहे' इत्यादि, 'स' विषयगृध्नुरिन्द्रियानुकूलवडॅकचर्याप्रतिपन्नस्तीथिको गृहस्थो वा परैः परिभृयमानो बहुः क्रोधोऽस्येति बहुक्रोधः, तथा वन्द्यमानो मानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजाः-बहुपापो बहुषु वाऽऽरम्मादिषु रतो बहुरतः, तथा नटवद्भोगार्थ बहून् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकार: शठो बहुशठः, तथा बहवः सङ्कल्पा:-कर्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौगदिनामेकचर्या वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह-'आसव' इत्यादि, आस्रवाः-हिंसादयस्तेषु सक्तं-सङ्गं आश्रवसक्तं तद्विद्यते यस्यासावाश्रवसक्ती-हिंसाधनुषगवान् पलित-कर्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत , स चैवम्भृतोऽपि किं ब्र यादित्याह-'उडिय'इत्यादि, धर्माचरणायोद्युक्तः उस्थितस्तद्वाद उत्थितवादस्तं प्रबदन , तीथिकोऽप्येवमाह-यथा अहमपि प्रवजितो धर्माचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छाद्यत इति । स चोस्थितवादी आस्रवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्तत इत्याह-'मा मे' इत्यादि, मा मां 'केचन' अन्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नमकार्य विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किं च-'सयय'मित्यादि, 'सततम्' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा 'धर्म' श्रुतचारित्राख्यं नाभिजानाति, न विवेचयतीत्यर्थः । यद्येवं ततः किंमित्याह-'अट्टा' इत्यादि, आर्ता विषयकषायैः 'प्रजायन्त' इति प्रजा:-जन्तवः हे मानव !, मनुजस्यैवोपदेशाहत्वान्मानवग्रहणं, 'कर्मणि' अष्टप्रकारे विभत्सिते 'कोविदा:' कुशलाः, न धर्मानुष्ठान ......
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy