SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ॥४०५॥ एवम्भूतः सुखदुःखान्यतररूपश्च गतः एवम्भूतश्च भावीत्येवं यः क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह-एस मग्गे' इत्यादि, 'एषः' अनन्तगेक्तो 'मार्गो' मोक्षपथः 'आर्यैः सर्वहेयधर्मारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा वेदित-कथितः प्रवेदित इति । न केवलमनन्तरोक्तो वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति तदाह-'उहिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्माचरणाय क्षणमप्येकं न प्रमादयेत । किं चापरमधिगम्येत्याह-'जाणित्तु' इत्यादि, ज्ञात्वा प्राणिनां प्रत्येकं दुःखं तदुपादानं वा कर्म तथा प्रत्येकं सातं चमनआह्लादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा प्रत्येकं, तदुपादानभृतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह-'पुढो' इत्यादि, पृथग-भिन्नः छन्द:-अभिप्रायो येषां ते पृथगछन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे'ति संसारे संझिलोके वा, के ते?-'मानवाः' मनुष्याः, उपलक्षणार्थवादन्येऽपि, संज्ञिना पृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह-'पुढो' इत्यादि, दुःखोपादानमेदाद् दुःखमपि प्राणिनां पृथक् प्रवेदितं, सर्वस्य स्वकृतकर्मफलेश्वरत्वात् नान्यकृतमन्य उपभुङ्क्ते इति । एतन्मत्वा किं कुर्यादित्याह-से' इत्यादि, 'स' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तधाऽनपवदन्-अन्यथैव व्यवस्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन् , मृषावादमब वन्नित्यर्थः, पश्य च त्वं तस्यापि प्राकृतत्वादापत्वाद्वा लोपः, एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम् । एतद्विधायी च किमपरं कुर्यादित्याह-पुट्ठो' इत्यादि, स पञ्चमहावतव्यवस्थिता ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ 1४०५॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy