SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ भीआचाराजवृत्तिः (शीलाका.) सम्य. ५ उद्देशक: २ .४०६॥ सन् यथागृहीतप्रतिज्ञातिनिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा तत्सहिष्णुतया अनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिमिः प्रेरयेत् , तत्प्रेरणं च सम्यकसहन, तत्कृतया दुःखासिकयाऽऽत्मानं भावयेदितियावत् ॥ यो हि सम्यकरणतया परीषहान् सहेत स किंगुणः स्यादित्याह एस समिया परियाए वियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से पुन्विपेयं पच्छापेयं भेउरधम्म विडसणधम्ममधुवं अणिइयं असासयं चयावचइयं विप्परिणामधम्म, पासह एवं रूवसधिं ॥ सू० १४७॥ 'एषः अनन्तरोक्तो यः परीषाहाणां प्रणोदक: 'समिया' सम्यक् शमिता वा शमोऽस्यास्तीति शमी तद्भावः शमिता 'पर्यायः' प्रव्रज्या सम्यक् शमितया वा पर्यायः-प्रव्रज्याऽस्येति विगृह्य बहुव्रीहिःस सम्यकपर्यायः शमितापर्यायो वा व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यता प्रतिपाद्य व्याधिसहिष्णुता प्रतिपादयन्नाह-'जे असत्ता' इत्यादि, येऽपाकृतमदनतया समवणमणिलेष्टुकाश्चनाःसमतापन्नाः पापेषु कर्मस्वसक्ता-पापोपादानानुष्ठानारताः 'उदाए' कदाचित्तान् तथाभूतान् साधून 'आतङ्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पृशान्ति' अभिभवन्ति पीडयन्ति । यदि नामेवं ततः किमित्याह-'इति उदाहु' इत्यादि, 'इति' एतद्वक्ष्यमाणमुदाहृतवान्-व्याकृतवान्, कोऽसौ ?-धीरो' वी:-बुद्धिस्तया राजते, स च तीर्थकृद्गणधरो वा, किं तदुदाहृतवान् ?-तैरातकैः स्पृष्टः सन् ॥४०६ ।।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy