________________
॥ ४०७ ॥
तान् स्पर्शान् - दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत् सहेत । किमाकलय्येत्याह - ' से पुव्व' मित्यादि, स स्पृष्टः पीडितः आशुकारिभिरातङ्करेतद्भावयेद् यथा पूर्वमप्येतद्-असातावेदनीय विपाकजनितं दुःखं मयैव सोढव्यं, पश्चादप्येतन्मयेव सहनीयं यतः संसारोदर विवरवर्त्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता ते रोगातङ्का न भवेयुः तथाहि केवलिनोऽपि मोहनीयादिघातिचतुष्टय तयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्'बद्धस्पृष्टनिघत्त निकाचनावस्थायातं कम्मवश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेद१ कर्मबन्धश्चतुर्विधः, तद्यथा - प्रकृतिबन्धः १ स्थितिबन्ध: २ अनुभागबन्धः ३ प्रदेशबन्ध : ४, तत्र प्रकृतिबन्धोऽष्टविधः, ज्ञानावरणीय धन्तरायान्तः, एतेऽष्टावपि मूलभेदाः, उत्तरभेदास्तु ज्ञानावरणीये पब्च, दर्शनावरणीये नव, वेदनीये द्वौ, मोहनीयेऽष्टाविंशतिः, आयुषञ्चत्वारः, नाम्नः द्विचत्वारिंशत् सप्तषष्टिर्वा त्रिनवतिर्वा त्र्युत्तरशतं वा, गोत्रे द्वौ अन्तराये पञ्च, इति मूलोत्तर प्रकृतिबन्धः । स्थितिबन्धे ज्ञानावरणीयदर्शनावरणीय वेदनीयान्तरायेषु त्रिंशत्कोटी कोट्य उत्कृष्टा स्थितिः, मोहनीये सप्ततिकोटा कोट्य', नामगोत्रयोविंशतिः, आयुषि ३३ सागरोपमाणि पूर्वकोटि त्रिभाम्रोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्त्ता, वेदनीयस्स बार समुहुत्ता, तमुत्ता से साणं इति स्थितिबन्धा, शुभाशुभकम्मंपुद्गलेषु - "जो रसो अग्गुभागो दुबइ तत्थ सुभेसु महुरो असुभेसु भमहुरो रसो तरस बन्धो अभागबन्धो" अणुभागबन्धो समन्तो । प्रदेशा:- कम्र्म्मवर्गणास्कन्धाः तेषां बन्धः जीवप्रदेशः सम बह्रययः पिण्डवर क्षीरनीरसम्बन्धवद्वा, उक्तं च- "जीवकर्मप्रदेशानां यः सम्बन्धः परस्परम् । कृशानुलोहबद्धेतोः, तं बन्धं जगदुर्बुधाः ॥ १ ॥ प्रष्टवद्ध निधन्तनिकाचितकारणभेदात् स पुनश्चतुर्विधः, तथाहि - समूहगताय सूचिसम्बन्धवत् स्पृष्टकर्मबन्धः, दवरकबद्धसूचि सम्बन्धवद्बद्धकर्मबन्धः, पर्षान्तरित दवरक व सूचिका सम्बन्धवन्निधन्तकर्मबन्धः अग्निष्म तशूचिका समवाय मे लकवन्निकाचितकर्मबन्धः ।
܀܀܀܀܀܀܀܀܀܀܀
॥ ४०७ ॥