________________
॥३७६॥
इमं निरुहाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाई व फासे, लोयं
च पास विफदमाणं, जे निव्वुडा पावहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा ___ अतिविजो नो पडिसंजलिजासि तिबेमि ॥ सू० १३६ ॥ इति तृतीय उद्देशकः ॥४-३॥ 'इदं मनुष्यत्वं निरुद्धायुष्क' निरुद्धं-परिगलितमायुष्क 'सम्प्रेक्ष्य' पर्यालोच्य क्रोधादिपरित्यागं विदध्यात् , किं च-दुक्ख' मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुत्पद्यते तज्जानीहि, तज्जनितकर्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः, आगामिदुःखस्वरूपमाह-'पुढो' इत्यादि, पृथक् सप्तनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान्' दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव क्षणे दुःखमनुभवतीत्यागामीनि पृथग दुःखानि च स्पृशेद्-अनुभवेत् , तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह-'लोयं च' इत्यादि, न केवलं क्राधादिविपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापन्नं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं पश्य' विवेकचक्षुषाऽवोकय । ये त्वेवं न ते किम्भूता भवन्तीत्यत आह-'जे निव्वुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाग्न्युपशमाभिवृताः-शीतीभूताः पापेषु कर्मसु 'अनिदाना: निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह-'तम्हा' इत्यादि, यस्माद्रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान्-विदितागमसद्भावः सन्न प्रतिसवले:-क्रोधाग्निनाऽऽत्मानं नोद्दीपयेः कषायोपशम कुर्वित्यर्थः । इतिरधिकारपरिसमाप्ती, प्रवीमीति पूर्ववत् । सम्यक्त्वाध्ययने तृतीयोदेशकटीका समाप्तेति ॥४-३॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥३४॥