SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ भीआचा रावृत्तिः (शीलाङ्का.) सम्य. ४ उद्देशका ४ ॥ ३८॥ ॥ अथ चतुर्थाध्ययने चतुर्थोद्देशकः ॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके निरवयं तपोऽभिहितं, तच्चा विकलं सत्संयमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थोद्देशक इत्यनेन सम्बन्धेनायातस्यास्योद्देशस्यादि सूत्रम् आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं हिच्चा उवसमं. तम्हा अधिमणे वीरे. सारए समिए सहिए सया जए, दुरणचरो मग्गो वीराणं अनियहगामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिज्जे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि ॥ सू० १३७ ॥ आङीपदर्थे, ईषत्पीडयेद् अविकृष्टेन तपमा शरीरकमापीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, तत ऊद्धर्वमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत्प्रपीडयेत् , पुनरध्यापितान्तेवासिवर्गः सङ्क्रामितार्थसारः शरीर तित्यक्षुर्मासार्द्धमासक्षपणादिमिः शरीरं निश्चयेन पीडयेन्निष्पीडयेत् , स्यात्-कर्मक्षयार्थ तपोऽनुष्ठीयते, स च पूजालाभख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इत्यतोऽन्यथा व्याख्यायते-कम्मैव कार्मणशरीरं वा आपीडयेत्प्रपीडयेनिष्पीडयेत् , अत्रापीषदर्थादिका प्रकर्षगतिरवसेया, यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यगदृष्ट्यादिषु गुणस्थानकेषु, ततोऽपूर्वकरणानिवृत्तिवादरयोः प्रपीडयेत् , सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत् , अथवा आपीडनमुपशमश्रेण्या प्रपीडन क्षपकश्रेण्यां निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत्कुर्यादित्याह-'जहित्ता' .
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy