________________
॥३८१॥
इत्यादि, पूर्वः संयोगः पूर्वसंयोगो-धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्व:-असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा 'आवीलये'दित्यादिसम्बन्धः, किं च-'हिच्चा इत्यादि, 'हि गता'वित्यस्मात् पूर्वकाले क्त्वा 'हित्वा' गत्वा, किं तत् ?-उपशमं-इन्द्रियनोइन्द्रियजयरूपं संयम वा 'गत्वा' प्रतिपद्यापीडयेदिति वर्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयम प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यतः कर्मापीडनार्थमुपशमप्रतिपत्तिस्तत्प्रतिपत्तौ चाविमनस्कतेत्याह-'तम्हा' इत्यादि, यस्मात्कम्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकषायादिष्वरतौ वा मनो यस्य स विमना योन तथा सोऽविमनाः, कोऽसौ , वीर:-कर्मविदारणसमर्थः । अविमनस्कत्वाच्च यत्स्यात्तदाह-'सारए' इत्यादि, सष्टा-जीवनमर्यादया संयमानुष्ठाने रतः स्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, 'सदा' सर्वकालं सकृदारोपितसंयमभार: संस्तत्र 'यतेत' यत्नवान् भवेदिति । किमर्थं पुन: पौनःपुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते ? इत्याह-'दुरनुचरो' इत्यादि, दुःखेनानुचर्यत इति दुरनुचर, कोऽसौ ?मार्गः-संयमानुष्ठानविधिः, केषां :-वीराणाम् अप्रमत्तयतीना, किम्भूतानामित्याह-'अणियह' इत्यादि, अनिवामोक्षस्तत्र गन्तु शीलं येषां ते तथा तेषामिति, यथा च तन्मार्गानुचरणं कृतं भवति तदर्शयति-'विगिंच' इत्यादि, 'मांस' शोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना 'विवेचय' पृथक्कुरु, तद्धद्रासं विधेहीतियावत् , एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः। यश्चैवम्भूतः स कं गुणमवाप्नुयादित्याह-एस' इत्यादि, 'एष' मांसशोणितयोरपनेता
॥३८१॥