SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ भीजाचाराजवृत्तिः (सीलाङ्का.) सम्य.४ उदेशका ४ .३८२॥ पुरि शयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, मत्वर्थीयष्ठन् , द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात् , कर्म रिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामपि । कि च-'आयाणिज्जे' इत्यादि स वीराणां मार्ग प्रतिपन्नः मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-ग्राह्य आदेयवचनश्च व्याख्यात इति । कश्चैवम्भृत इत्याह-'जे धुणाइ' इत्यादि 'ब्रह्मचर्ये' संयमे मदनपरित्यागे वोषित्वा यः 'समुच्छ्रयं' शरीरकं कम्र्मोपचयं वा तपश्चरणादिना 'धुनाति' कृशीकरोति स आदानीय इति विविधमाख्यातो व्याख्तात इति सम्बन्धः ॥ उक्ता अप्रमत्ताः, तद्विधर्मणस्तु प्रमत्तानमिधित्सुराह नित्तेहिं पलिच्छिन्नहिं आयाणसोयगढिए बाले, अव्वोच्छिन्नबंधणे अणभिवकतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि तिमि ॥ सू० १३८ । नयत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि-चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः-यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनमोहोदयादादानस्रोतोगृद्धः-आदीयते-सावद्यानुष्ठानेन स्वीक्रियत इत्यादानं-कम्म संसारबीजभूतं तम्य स्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगा वा तेषु गृद्धःअध्युपपन्नः स्यात् , कोऽमो ?-'बाल' अज्ञः रागद्वपमहामोहाभिभूतान्तःकरणः । यश्चादानस्रोतोगृद्धः म किम्भृतः स्यादिन्याह-'अव्वोच्छिन्नबंधणे' इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकारं कर्म यस्य स तथा, किं च-'अणभिक्कत' इत्यादि, अनभिक्रान्तः-अनतिलचितः संयोगो धनधान्यहिरण्यपुत्रकलत्रादिकृतोऽसंयमसंयोगो वा ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ३८२ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy