________________
॥३३॥
येनासावनतिक्रान्तसंयोगः तस्य चैवम्भृतस्येन्द्रियानुकून्यरूपे मोहात्मके वा स्मसि वर्तमानस्यात्महितं मोक्षोपाय वाऽविजानत आज्ञायाः-तीर्थकरोपदेशस्य लामो नास्तीत्येतदहं ब्रवीमि तीर्थकरवचनोपलब्धसद्भाव इति, यदिवाऽऽज्ञा बोधिः सम्यक्त्वम् , अस्तिशब्दश्चायं निपातस्विकालविषयी, तेनायमर्थः-तस्यानभिक्रान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीमास्ति न भावीति । एतदेवाह
जस्स नत्थि पुरा पच्छा मझे तस्स कुओ सिया?, सेड पन्नाणमंते बुद्ध आरंभोवरए, संममेयंति पासह, जेण बंधं वहं घोरं परियावं च दारुणं पलिळिंदिय बाहिरगं च सोयं, निक्कंमदंसी इह मच्चिएहिं, कग्माणं सफलं दळूण तओ निजाइ घेयवी ॥ सू० १३९ ।। यस्य कस्यचिदविशेषितस्य कर्मादानस्रोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धनस्यानभिक्रान्तसंयोगस्याज्ञानतमसि वर्त्तमानस्य 'पुरा' पूर्वजन्मनि बोधिलाभो नास्ति-सम्यक्त्वं नासीत् 'पश्चादपि' एष्येऽपि जन्मनि न भावि 'मध्ये मध्यजन्मनि तस्य कुतः स्यात इति , एतदुक्तं भवति-यस्यैव पूर्व बोधिलाभः संवृत्तो भविष्यति वा तस्यैव वर्तमानकाले भवति, येन हि सम्यक्त्वमास्वादितं पुनर्मिथ्यात्वोदयात्तत्प्रच्यवते तस्यापार्द्धपुद्गलपरावर्तेनापि कालेनावश्यं तत्सद्भावात , न ह्ययं सम्भवोऽस्ति प्रच्युतस्य सम्यक्त्वस्य पुनरसम्भव एवेति, अथवा निरुद्धेन्द्रियोऽपि आदानस्रोतोगृद्धः इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वतः आगामि च दिव्याङ्गनामोगमनभिकाङ्क्षतो वर्तमानसुखाभिष्वङ्गोऽपि नैव म्यादित्येतदर्शयितुमाह-'जस्स नत्थि' इत्यादि, यस्य भोगविपाकवेदिनः पूर्वभुक्तानुस्मृतिर्नास्ति नापि पाश्चात्यकाल
1३८३n