________________ अभिधर्मदीपे [77. नहेतोविशुद्धयन्ते" इति / ' पुण (न) भवसंबन्धवशिभावानुवर्तनयोर्वा / पुनर्भवसंबन्धे तावद्यथोक्तम्-“गन्धर्वस्य तस्मि (स्मिन्) समये द्वयोश्चित्तयोरण्य(न्य)तरत्संमुखीभूतं भवत्यनुनयस'हगतं वा प्रतिघसहगतं वा / "2 तथा "विज्ञानं चेदानन्द मातुः कुक्षि नावक्रामेत्" इति / वशिभावानुवर्तने यथोक्तम्"चित्तेनायं लोको नीयते” इति विस्तरः। स्त्रीपुरुषेन्द्रिययोरपि सत्त्वोत्पत्तिविकल्पनयोराधिपत्यम् / सत्त्वोत्पत्ती तावत्, प्रायस्तदधीनत्वात्तदुत्पत्तेः / सत्त्वविकल्पेऽपि तद्व शात् / प्राथमकल्पिकानां च सत्त्वानां चेष्टा स्त्रीपुरुषस्वराचारादिविकल्पभेदात् / [77 ] स्वगोचरोपलब्ध्यादावीषि (शि)त्वमपरे विदुः / पौराणाः पुनराचार्याः कथयन्ति-५"चक्षुरादीनां पञ्चानां प्रत्येक चतुर्वर्थेष्वाधिपत्यम् / चक्षुःश्रोत्रयोस्तावदात्मभावशोभायामन्धबंधिरयोरकान्तरूपत्वात् / आत्मभावपरिकर्षणे, दृष्ट्वा श्रुत्वा च विषयविवर्जणा(ना)त्। चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरुत्पत्तौ। रूपदर्शण (न) शब्दश्रवणयोश्चासाधारणकारणवे।६ घ्राणजिह्वाकायानां त्वात्मभावशोभायां 1cf. चित्तसंकिलेसा भिक्खवे सत्ता संकिलिस्सन्ति, चित्त वोदाना विसुज्झन्ति / S. III. p. 51. 2 Cf. एवं पठ्यते प्रज्ञप्तौ “गन्धर्वस्य""प्रतिघसहगतं वा।" Akb. III. 15. ab. This is not found in the Pali Pitakas But the idea of a gandharva is known to the Pali tradition : यतो च खो भिक्खवे मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्चुपट्टितो होति; एवं तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होति / M. sutta 38, 3 Cf. विजाणं च हि आनन्द मातुकुच्छिस्मि न ओक्कमिस्सथ, अपि नु खो नामरूपं मातुकुच्छिस्मि समुच्छिस्सथाति / Digha xv. 21. 4 Cf. चित्तेन खो भिक्खु लोको निय्यति""| Ang. p. II. 177. also, cf. चित्तेन निय्यति लोको चित्तेन परिकस्सति / चित्तस्स एकधम्मस्स सब्बेव वसमन्वगू / / S. III, p. 151. . See Siksa p. 121. 5 This whole passage (from चक्षुरादीनां पञ्चानां to कबडीकाराहारपरिभोगात्) is identical with Akb. II. 1 ab. But the latter does not say this to be a view of Pauranacaryas. 6 रूपदर्शनशब्दश्रवणयोश्चेति / चक्षुः पश्यति श्रोत्रं शृणोतीत्यादि वैभाषिकाणा सिद्धान्तः / तेनालम्बनविशेषलक्षणयोर्दर्शनश्रवणयोरसाधारणकारणत्वे चक्षुःश्रोत्रयोराधिपत्यम् / Saks. p. 93.