________________ 158 अभिधर्मदीपे [ 195 पुद्गलस्य' योऽसावेवं नामवं गोत्र इति विरतरः / / अबुद्धिपूर्वादपि प्राणिवधात्कर्तुरधर्मो भवति यथाऽग्निस्पर्शाहाह इति नग्नाटाः / तेषां परदारदर्शण (न) स्पर्शनेऽप्येष प्रसंगः / तुष्टरुष्टनग्नाट. वाह्लीकनिर्ग्रन्थशिरोलुञ्चने च / 3 The Vijnanavadin gives the following explanation : यदि विज्ञप्तिमात्रमेवेदं न कस्यचित् कायोऽस्ति न वाक् / कथमनुक्रम्यमाणानामौरभ्रिकादिभिरुरभ्रादीनां मरणं भवति / अतत्कृते वा तन्मरणे कथमौरभ्रिकादीनां प्राणातिपातावद्येन योगो भवति ? मरणं परविज्ञप्तिविशेषाद्विक्रिया यथा / स्मृतिलोपादिकान्येषां पिशाचादिमनोवशात् // यथा हि पिशाचादिमनोवशादन्येषां स्मृतिलोपस्वप्नदर्शनभूतग्रहावेशविकारा भवन्ति / ' ..."तथा परविज्ञप्तिविशेषाधिपत्यात्परेषां जीवितेन्द्रियविरोधिनो काचिद्विक्रियोत्पद्यते यया सभागसंततिविच्छेदाख्यं मरणं भवतीति वेदितव्यम् / Vimatika-Vritti, 19. See Aaa. pp. 440 ff. and B. Panjika, IX. 10-14. 1 Cf. कस्य तज्जीवितं यस्तदभावान्मृतो भवति ? कस्येति षष्ठी पुद्गलवादे विचारयिष्यामः। Akb. IV. 73 ab. It appears that the Adv. had not a Ninth Adhya ya dealing with the Pudgalavada, corresponding to the IX Kosasthana of Akb. 2f कतमो च भिक्खवे भारहारो? पुग्गलो तिस्स वचनीयं / योयं आयस्मा एवं नामो एवं गोत्तो। S. III. p. 25. 3 Cf. अबुद्धिपूर्वादपि प्राणिवधात् कर्तुरधर्मो यथाऽग्निसंयोगाद्दाह इति निम्रन्थाः / तेषां परदारदर्शनेऽप्येष प्रसंगः / निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुस्तद्विसूचिकामरणे च दातुर्वेद्यानां चातुरपीडने मारणे च मातृगर्भस्थयोश्चान्योऽन्यं दुःखनिमित्तत्वात् / वध्यस्यापि च तत् क्रियासंबन्धादग्निस्वाश्रयदाहवत्। कारयतश्चाप्रसंगस्तदसंबन्धात् / परेणाग्नि स्पर्शयतस्तेनादाहवत् / अचेतनानां च काष्ठादीनां गृहपतिप्राणिवधात् पापप्रसंगो न वा दृष्टान्तमात्रासिद्धिरिति / Akb. IV. 73 ab. This criticism of the Jaina (Nirgrantha) has been answerd by Siddbasena (a Jaina acharya of the 9th century A.D.) in his Tattvarthatika:-अत्रोच्यते जैन:-प्राणातिपातावद्य न प्रमत्त एव युज्यते / प्रमत्तश्च नियमेन रागद्वेषमोहवृत्तिः / 'रागद्वेषमोहाश्चात्मनः परिणामविशेषाः प्राणातिपातावद्यहेतवः सर्वैर्मोक्षवादिभिरविगानेनाभ्युपेयन्ते / सिद्धान्तविहितविधिना च परित्यागाकरणं शरीरादेर्ममत्वीकृतस्या'वरतिः अनिवृत्तिरात्मनः परिणतिविशेषः / सापि प्राणातिपातावद्यहेतुतया निर्दिष्टा भगवता भगवत्यादिषु / " प्रमत्तयोगाच्च प्राणातिपाताद्यवमिति व्यवस्थिते यदुच्यते परेण-प्रसंचित्य वा भ्रान्त्या वा मारणं नावद्यहेतुकमिति / अत्र प्रतिविधीयते-असंचित्य कुर्वतो यद्यवद्या