________________ 200 अभिधर्मदीपे [ 236. कस्य पुनः कल्पासंख्येय स्यावसाने कतमो बुद्धो बभूव ?' अत्रापि वर्णयन्ति। रत्नशिखिनि२ सम्यक्संबुद्धे प्रथमोऽसंख्येयः समाप्तः / भगवति दीपङ्करे३ द्वितीयः / भगवति विपश्यिनि तृतीय : समाप्तः। . कस्मिन्पुनः सम्यक्संबुद्धे बुद्धत्वे प्रथमं चित्तमुत्पादितम् ? शाक्यमुनो। . शाक्यमुनि म प्रथमस्यासंख्येयस्यादौ वभूत्र यत्र भगक्ता भार्गवभूतेन "सुखोदकेनाङ्गपरिचर्याभिरुपस्थानं कृत्वा प्रथमं वोधिचित्तमुत्पादितमहमप्येवं प्रकारो भूयासमिति / तथा हि प्रथमेन कल्पासंख्येयेन सम्भारभूमिमारभ्य यावत्प्रथमा भूमिनिष्पाद्यते द्वितीयेन तु विमलाभूमिमुपादाय यावत्सप्तमी भमिः, तृतीयेन पुन: कल्पासंख्येयेनाचलाभूमिमारभ्य यावबुद्धभूमिरित्येवं त्रिभिः कल्पासंख्येयर्बुद्धत्वमधिगम्यत इति / त्रिकसामान्यात् त्रिभिः कल्पासंख्येयरित्युक्तं न पुनः परमार्थन इत्येवं नेयार्थसूत्रव्याख्याने नितरामेव विरोधः / तथा हि सम्भारभूमिमापूरयन्नेक कल्पासंख्येयमतिकामति, तदनन्तरमधिमुक्तिचर्याभूमि निष्पादयन् प्रत्येकं त्रिभिस्त्रिभिः कल्पासंख्येयैर्बोधिसत्त्वो निष्पाद्य समन्तप्रभा बुद्धभूमिमासादयतीत्येवं त्रयस्त्रिशता कल्पासंख्येयर्बुद्धत्वं प्राप्यत इत्याचार्यवसुबन्धुपादाः / Aaa. pp. 55 3-9. 1Cf. असंख्येयत्रयान्त्यजाः। विपश्यी दीपकृद्रत्नशिखी शाक्यमुनि : पुरा / Ah, IV.110 bcd. ___ 2 See BHSD. p. 452. 3 See BHSD. p. 265. 4 See BHSD. p. 491. 4 See Mahavastu, I. 47 and BHSD. p. 525. According to the Pali tradition, however, it was under Dipaikara Buddha, that Gautama (the Bodhisattva) made the Pranidhana. See Buddhavamso, chapter II. 6 Cf. यत्र भगवता"प्रभास नाम्ना कुम्भकारकुमारभूतेनासुखोदकाभ्यङ्गपरिचर्याभिरुपस्थानं कृत्वाद्यं प्रणिधानं कृतम् / Saks. p. 432. Bhargava means a potter. See BHSD. p. 408. See Pali Bhaggava, DPPN. II. p. 344. The Siksha. quotes similar instances :-ययोक्तं भद्रकल्पिकसूत्रे। घोषदत्तो नाम तथागतो यत्र नक्षत्रराजेन प्रथमं बोधिचितमुत्पादितं ताम्बूलपत्रं दत्वा गोपालकभूतेन / Siksha, pp 8-9. 7 बोधिचित्त बोध्यर्थं चित्तं प्रणिधिष्ठानात्मक चित्तमिति / Aaa. p. 78. See Bodhichittotpada-sutra Sastram, pp. 5-7. and The Bodhisattva Doctrine, Pp. 58-64. उत्पादितचित्तो बोधिसत्त्वः "दृढमादावुत्पादयति सम्यक्प्रणिधानं संग्रहीतुं सर्वानप्रमेयान्सत्वान् / गवेषयाम्यहमनुत्तरां बोधि"तस्माच्चित्तोत्पादादारभ्य महाकरुणायाः करुणाचित्तेनोत्पादयति दशोत्तराणि सम्यक्प्रणिधानानि / Bodhichittotpada-satrasastra, p. 8. For ten mahapranidhanas, see Siksha, p. 295.